________________
३. निःक्षेपपरिच्छेदः ।
२९ परस्य परस्योत्पित्सोः कारणमिति । अस्मिश्च पक्षे सिद्ध एव भावजीवो भवति, नान्य इति-एतदपि नानवद्यमिति तत्त्वार्थटीकाकृतः ।
६१०. इदं पुनरिहावधेयं-इत्थं संसारिजीवे द्रव्यत्वेऽपि भावत्वाविरोधः, एकवस्तुगतानां नामादीनां भावाविनाभूतत्वप्रतिपादनात् । तदाह भाष्यकार:
"अहवा वत्थूभिहाणं, नाम ठवणा य जो स्यागारो।
कारणया से दव्वं, कजावलं तयं मावो ॥१॥" [ विशेषा० ६० ] इति । केवलमविशिष्टजीवापेक्षया द्रव्यजीवत्वव्यवहार एव न स्यात् , मनुष्यादेर्देपत्वादिविशिष्टजीवं प्रत्येव हेतुत्वादिति अधिकं नयरहस्यादौ विवेचितमस्माभिः ॥
॥ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिध्यावतंस.
पण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिशिष्येण पण्डितश्रीपद्मविजयगणिसोदरेण पण्डितयशोविजयगणिना विरचितायां जैनतर्कभाषायां
निक्षेपपरिच्छेदः संपूर्णः, तत्संपूतौ च संपूर्णेयं जैनतर्कभाषा ।
॥ स्वस्तिश्रीश्रमणसङ्घाय ।।
१ तत्त्वार्थ• भा० ३० पृ. ४८ । २० ८४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org