________________
१४
आचार्यश्री हेमचन्द्रविरचिता [अ० १, आ० १, सू० १७-१९.
इति । अथापि तगादिदोषकालुष्यविरहिताः सततज्ञानानन्दमयमूर्तयो ब्रह्मादयः; तर्हि तादृशेषु तेषु न विप्रतिपद्यामहे, अवोचाम हि
"चत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । बीतदोष कषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ "
[ अयोग- ३१]
5
इति । केवलं ब्रह्मादेवताविषयाणां श्रुतिस्मृतिपुराणेतिहासकथानां वैतथ्यमासज्येत तदेवं साधकेभ्यः प्रमाणेभ्योऽतीन्द्रियज्ञानसिद्धिरुक्ता ॥ १६ ॥
बाधकाभावाच्च ॥१७॥
६५९. सुनिश्चिंतासम्भवद्वाधकत्वात् सुखादिवत् तत्सिद्धिः इति सम्बध्यते । तथाहि 10 केवलज्ञानबाधकं भवत् प्रत्यक्षं वा भवेत् प्रमाणान्तरं वा १ । न तावत् प्रत्यक्षम् ; तस्य विधावेवाधिकारात्
"सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना ।" [ श्लोकबा० सू० ४. श्लो० ८४ ] इति स्वयमेव भाषणात् ।
$६०. अथ न प्रवर्तमानं प्रत्यक्षं तद्वाधकं किन्तु निवर्तमानम् तत् ; हिं (द्धि) यदि 15 नियत देशकालविषयत्वेन बाधकं तर्हि सम्प्रतिपद्यामहे । अथ सकलदेशकालविषयत्वेन; तर्हि न तत् सकलदेशकालपुरुष परिषत्साक्षात्कारमन्तरेण सम्भवतीति सिद्धं नः समीहितम् । न च जैमिनिरन्यो वा सकलदेशादिसाक्षात्कारी सम्भवति सत्त्वपुरुषत्वादेः रथ्यापुरुषवत् । अथ महायाः सातिशयत्वात्तत्प्रकर्षोऽप्यनुमीयते तर्हि तत एव सकलार्थ - दर्शी किं नानुमीयते १ । स्वपक्षे चानुपलम्भमप्रमाणयन् सर्वज्ञाभावे कुतः प्रमाणयेद20 विशेषात् ? ।
६१. न चानुमानं तद्बाधकं सम्भवतिः धर्मिग्रहणमन्तरेणानुमानाप्रवृत्तेः, धम्मिग्रहणे वा तद्ग्राहक प्रमाणबाधितत्वादनुत्थानमेवानुमानस्य । अथ विवादाध्यासितः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् पुरुषत्वाद्वा रथ्यापुरुषवदित्यनुमानं तद्वाधकं ब्रूषे ; तदसत् ; यतो यदि प्रमाणपरिदृष्टार्थवक्तृत्वं हेतुः तदा विरुद्धः, तादृशस्य वक्तृत्वस्य सर्वज्ञ एव 25 भावात् । अथासद्भूतार्थवक्तृत्वम् ; तदा सिद्धसाध्यता, प्रमाणविरुद्धार्थवादिनामसर्वज्ञत्वेनेष्टत्वात् । वक्तृत्वमात्रं तु सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकम् ज्ञानप्रकर्षे वक्तृत्वाप - कर्षादर्शनात्, प्रत्युत ज्ञानातिशयवतो वक्तृत्वातिशयस्यैवोपलब्धेः । एतेन पुरुषत्वमपि निरस्तम् । पुरुषत्वं हि यदि रागाद्यदूषितं तदा विरुद्धम्, ज्ञानवैराग्यादिगुणयुक्तपुरुषत्वस्य सर्वज्ञतामन्तरेणानुपपत्तेः । रागादिदूषिते तु पुरुषत्वे सिद्धसाध्यता । . पुरुषत्वसामान्यं तु 30 सन्दिग्धविपक्षव्यावृत्तिकमित्यबाधकम् ।
१ प्रमाणोपपन्न० । २ निवर्तमानम् । ( तद्धि ) यदि मु० । ३ - ० साक्षात्करणम० - डे० !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org