________________
मुख्यप्रत्यक्षस्य निरूपणम् । . प्रमाणमीमांसा। इति ; आः ! सर्वज्ञापलापपातकिन् ! दुर्वदवादिन् ! मानुषत्वनिन्दार्थवादापदेशेन देवाधिदेवानधिक्षिपसि ? । ये हि जन्मान्तरार्जितोर्जितपुण्यप्राग्याराः सुरभवभवमनुपमं सुखमनुभूय दुःखपङ्कमग्नमखिलं जीवलोकमुद्दिधीर्षवो नरकेष्वपि क्षणं क्षिप्तसुखासिकामृतवृष्टयो मनुष्यलोकमवतेरुः जन्मसमयसमकालचलितासनसकलसुरेन्द्रवृन्दविहितजन्मोत्सवाः किङ्करायमाणसुरसमूहाहमहमिकारब्धसेवाविधयः स्वयमुपनतामतिप्राज्यसाम्राज्य- 5 श्रियं तृणवदवधूय समतृणमणिशत्रुमित्रवृत्तयो निजप्रभावप्रशमितेतिमरंकादिजगदुपद्रवाः शुक्लध्यानानलनिर्दग्धघातिकर्माण आविर्भूतनिखिलभावाभावस्वभावावमासिकेवलबलदलितसकलजीवलोकमोहप्रसराः सुरासुरविनिर्मितां समवसरणभुवमधिष्ठाय स्वस्वभाषापरिणामिनीभिर्वाग्भिः प्रवर्तितधर्मतीर्थाश्चतुस्त्रिंशदैतिशयमयीं तीर्थनाथत्वलक्ष्मीमुपभुज्य परं ब्रह्म सततानन्दं सकलकर्मनिर्मोक्षमुपेयिवांसस्तान्मानुषत्वादिसाधारणधर्मोपदेशेनाप- 10 वदन सुमेरुमपि लेष्ट्वादिना साधारणीकतुं पार्थिवत्वेनापवदेः । किञ्च, अनवरतवनिताङ्गसम्भोगदुर्ललितवृत्तीनां विविधहेतिसमूहधारिणामक्षमालाद्यायत्तमनःसंयमानां रागद्वेषमोहकलुषितानां ब्रह्मादीनां सर्ववित्त्वसाम्राज्यम् !, यदवदाम स्तुतौ
"मदेन मानेन मनोभवेन क्रोधेन लोभेन ससम्मदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥” 15
[ अयोग-२५] १ अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ___ खचक्र परचक्रं च सप्तैता ईतयः स्मृताः ॥ -मु-टि. २ मरको मारिः। ३ अतिशयाः ३४
"तेषां च देहोद्भुतरूपगन्धो निरामयः स्वेदलवोज्झितश्च । श्वासोऽब्जगन्धो रुधिराभिषं तु गोक्षीरधाराधवलं ह्यविस्रम् ॥१॥ आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः। क्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतिर्यग्जनकोटिकोटेः ॥२॥ वाणी नृतिर्यक्सुरलोकभाषा संवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहर्पतिमण्डलधि ॥३॥ साग्रे च गन्यूतिशतद्वये रुजा वैरेतयो मार्यतिवृष्टयवृष्टयः। दुर्मिक्षमन्यस्वकचक्रतो भयं स्याभेत एकादश कर्मघातजाः ॥४॥ खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलं च । छत्रत्रयं रत्नमयध्वजोऽघ्रिन्यासे च चामीकरपङ्कजानि ॥५॥ वप्रत्रयं चारु चतुर्मुखागता चैत्यद्वमोऽधोवदनाश्च कण्टकाः ।
बाद उच्चकैर्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ॥६॥ गन्धाम्बुवर्ष बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः।। चतुर्विधामर्त्य निकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥७॥ ऋतूंनामिन्द्रियार्थानामनुकूलत्वमित्यमी। ..
एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच मीलिताः ॥८॥" [अभिधा० १. ५६-६३ ] मु-टि. ४ लोमेन च सम्म०-डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org