________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० १, सू० १६. ६५५. प्रज्ञाया अतिशयः- तारतम्यं क्वचिद्विश्रान्तम् , अतिशयत्वात् , परिमाणातिशयवदित्यनुमानेन निरतिशयप्रज्ञासिद्धया तस्य केवलज्ञानस्य सिद्धिः, तत्सिद्धिरूपत्वात् केवलज्ञानसिद्धेः । 'आदि ग्रहणात् सूक्ष्मान्तरितदरार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् घटवदित्यतो, ज्योतिर्ज्ञानाविसंवादान्यथानुपपत्तेश्च तत्सिद्धिः, यदाह
"धीरत्यन्तपरोक्षेऽर्थे न चेत् पुंसां कुतः पुनः। ज्योतिज्ञानाविसंवादः श्रुताचेत् साधनान्तरम् ॥”
[सिद्धिवि. पृ० ४१३A ] ५६. अपि च-"नोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्म व्यवहितं विप्रकृष्टमेवजातीयकमर्थमवगमयति नान्यत्किञ्चनेन्द्रियम्" - [ शाबर भा० १. १. २. ] 10 इति वदता भूताद्यर्थपरिज्ञानं कस्यचित् पुंसोभिमतमेव, अन्यथा कस्मै वेदस्त्रिकालविषयमर्थ निवेदयेत् । स हि निवेदयंस्त्रिकालविषयतत्त्वज्ञमेवाधिकारिणमुपादत्ते, तदाह
"त्रिकालविषयं तत्त्वं कस्मै वेदो निवेदयेत् ।
__ अक्षय्यावरणैकान्तान चेछेद तथा नरः ॥”[सिद्धिवि० पृ. ४१४A] इति त्रिकालविषयवस्तुनिवेदनाऽन्यथानुपपत्तेरतीन्द्रियकेवलज्ञानसिद्धिः। . 15६५७. किञ्च, प्रत्यक्षानुमानसिद्धसंवादं शास्त्रमेवातीन्द्रियार्थदर्शिसद्भावे प्रमाणम् । - य एव हि शास्त्रस्य विषयः स्याद्वादः स एव प्रत्यक्षादेरपीति संवादः, तथाहि
"सर्वमस्ति स्वरूपेण पररूपेण नास्ति च ।
अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः ॥" इति दिशा प्रमाणसिद्ध स्याद्वादं प्रतिपादयभागमोऽर्हतस्सर्वज्ञतामपि प्रतिपादयति, 20 यदस्तुम
"यदीयसम्यक्त्वबलात् प्रतीमो भवादृशानां परमात्मभावम् ।
कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥" इति । प्रत्यक्षं तु यद्यप्यन्द्रियि(य)कं नातीन्द्रियज्ञानविषयं तथापि समाधिबललब्धजन्मकं 25 योगिप्रत्यक्षमेव बाह्यार्थस्येव स्वस्यापि वेदकमिति प्रत्यक्षतोऽपि तत्सिद्धिः । ६५८. अथ
"ज्ञानमतिघं यस्य वैराग्यं च जगत्पतेः।
ऐश्वर्य चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥" इति वचनात्सर्वज्ञत्वमीश्वरादीनामस्तु मानुषस्य तु कस्यचिद्विद्याचरणवतोपि तदसम्भाव30 नीयम् , यत्कुमारिल:
"अथापि वेददेहत्वाद् ब्रह्मविष्णुमहेश्वराः। कामं भवन्तु सर्वज्ञाः सार्वश्यं मानुषस्य किम् ? ॥"
[तत्वस० का० ३२०८] १-०जन्मकयोगि०-डे. मु०।१ अप्रतिघातम्।
[अयोग० २१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org