SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ मुख्यप्रत्यक्षस्य निरूपणम् । ] . . प्रमाणमीमांसा । वरणीयादिकर्मभिरावरणस्य सम्भवात्, चन्द्रार्कादेवि च प्रबलपवमानप्रायैानभावनादिभिर्विलयस्येति । ५१. ननु सादित्वे स्यादावरणस्योपायतो विलयः; नैवम् ; अनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात् , तद्वदेवानादेरपि ज्ञानावरणीयादिकर्मणः प्रतिपक्षभूतरत्नत्रयाभ्यासेन विलयोपपत्तेः। ६५२. न चामूर्तस्यात्मनः कथमावरणमिति वाच्यम् ; अमूर्तीया अपि चेतनाशक्तमदिरामदनकोद्रवादिभिरावरणदर्शनात् । ५३. अथावरणीयतत्प्रतिपक्षाभ्यामात्मा विक्रियेत न वा ? । किं चातः । "वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः ॥" 10 इति चेत् ; न; अस्य दूषणस्य कूटस्थनित्यतापक्ष एव सम्भवात् , परिणामिनित्यश्चात्मेति तस्य पूर्वापरपर्यायोत्पादविनाशसहितार्नुवृत्तिरूपत्वात् , एकान्तनित्यक्षणिकपक्षयोः सर्वथार्थक्रियाविरहात् , यदाह "अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः। क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता ॥” [ लधी० २.१] 15 इति ॥१५॥ ६५४. ननु प्रमाणाधीना प्रमेयव्यवस्था। न च मुख्यप्रत्यक्षस्य तद्वतो वा सिद्धौ किश्चित् प्रमाणमस्ति। प्रत्यक्षं हि रूपादिविषयविनियमितव्यापार नातीन्द्रियेऽर्थे प्रवर्तितुमुत्सहते । नाप्यनुमानम् , प्रत्यक्षदृष्टलिङ्गलिङ्गिसम्बन्धबलो[प]जननधर्मकत्वात्तस्य ।। आगमस्तु यद्यतीन्द्रियज्ञानपूर्वकस्तत्साधकः; तदेतरेतराश्रयः- . 20 __ "नर्ते तदागमात्सिध्येन च तेनागमो विना ।" [ श्लोकवा० सू० २. श्लो० १४२ ] इति । अपौरुषेयस्तु तत्साधको नास्त्येव । योऽपि “अपाणिपादो धमेनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति विवं न हि तस्य वेत्ता तमाहुरग्यं पुरुषं महान्तम् ॥" 25 [ श्वेताश्व० ३. १९. ] इत्यादिः कश्चिदर्थवादरूपोऽस्ति नासौ प्रमाणम् विधावेव प्रामाण्योपगमात् । प्रमाणान्तराणां चात्रानवसर एवेत्याशङ्कयाह प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तत्सिद्धिः ॥१६॥ १चन्द्रादेरिव-ता०। २-०पवनप्राय०-ता०। ३ विलयस्य चेति-डे. मु०। ४-०सहिंतानुवृत्तरूप०-डे । ५ विषयविनिर्मित-डे. मु०।६ -०बलोपजनितध० -डे. मु० । ७-०श्रयम्-ता०।८ -०पादौ यम० -ता० । ९ अत्र 'जवनो' इत्येव सम्यक् , तस्यैव शङ्करेण व्याख्यातत्वात् । १० वेद्य-श्वेता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy