________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० १, सू० १४-१६. धम्मिणो हेतुत्वेऽनन्वयदोष इति चेत् । न विशेषे धर्मिणि धर्मिसामान्यस्य हेतुत्वात् । तस्य च विशेषनिष्ठत्वेन विशेषेष्वन्वयसम्भवात् । सपक्षे वृत्तिमन्तरेणापि च विपक्षघ्यावृत्तिबलाद्गमकत्वमित्युक्तमेव ॥१३॥
६४५. अथ किमिदं वैशा नाम?। यदि स्वविषयग्रहणम् । तत् परोक्षेप्यंक्षणम् । अथ 5 स्फुटत्वम् तदपि स्वसंविदितत्वात् सर्वविज्ञानानां सममित्याशझ्याह
प्रसाणान्तरानपेक्षेदन्तया प्रतिभासो वा वैशयम् ॥१४॥ ६४६. प्रस्तुतात् प्रमाणाद् यदन्यत् प्रमाणं शब्दलिङ्गादिज्ञानं तत् प्रमाणान्तरं तन्निरपेक्षता 'वैशद्यम्' । नहि शाब्दानुमानादिवत् प्रत्यक्षं स्वोत्पत्तौ शब्दलिङ्गादिज्ञानं प्रमाणा
न्तरमपेक्षते इत्येकं वैशद्यलक्षणम् । लक्षणान्तरमपि 'इदन्तया प्रतिभासो वा' इति, 10 इदन्तया विशेषनिष्ठतया यः प्रतिभासः सम्यगर्थनिर्णयस्य सोऽपि 'वैशद्यम्' । 'वा'शब्दोलक्षणान्तरत्वसूचनार्थः ॥१४॥
४७. अथ मुख्यसांव्यवहारिकभेदेन द्वैविध्यं प्रत्यक्षस्य हृदि निधाय मुख्यस्य लक्षणमाह
तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्यं केवलम् ॥१५॥ 15६४८. 'तत्' इति प्रत्यक्षपैरामशीर्थम्, अन्यथानन्तरमेव वैशद्यमभिसम्बध्येत । दीर्घ
कालनिरन्तरर्सत्कारासेवितरत्नत्रयप्रकर्षपर्यन्ते एकत्ववितर्काविचारध्यानबलेन निःशेषतया ज्ञानावरणादीनां घातिकर्मणां प्रक्षये सति चेतनास्वभावस्यात्मनः प्रकाशस्वभावस्येति यावत्, स्वरूपस्य प्रकाशस्वभावस्य सत एवावरणापगमेन 'आविर्भावः' आविर्भूतं स्वरूपं
मुखमिव शरीरस्य सर्वज्ञानानां प्रधानं 'मुख्यम्' प्रत्यक्षम् । तच्चेन्द्रियादिसाहायकविरहात 20 सकलविषयत्वादसाधारणत्वाच 'केवलम्' इत्यागमे प्रसिद्धम् ।
६४९. प्रकाशस्वभावता कथमात्मनः सिद्धेति चेत् ; एते ब्रूमः-आत्मा प्रकाशस्व. भावः, असन्दिग्धस्वभावत्वात्, यः प्रकाशस्वभावो न भवति नासावसन्दिग्धस्वभावो यथा घटः, न च तथात्मा, न खलु कश्चिदहमस्मि न वेति सन्दिग्धे इति नासिद्धो हेतुः । तथा,
आत्मा प्रकाशस्वभावः, बोद्धृत्वात्, यः प्रकाशस्वभावो न भवति नासौ बोद्धा यथा घटः, 25 न च न बोद्धात्मेति । तथा, यो यस्याः क्रियायाः कर्त्ता न स तद्विषयो यथा गतिक्रियायाः कर्ता चैत्रो न तद्विषयः, ज्ञप्तिक्रियायाः कर्ता चात्मेति ।
६५०. अथ प्रकाशस्वभावत्व आत्मनः कथमावरणम् ?, आवरणे वा सततावरणप्रसङ्गः, नैवम् प्रकाशस्वभावस्यापि चन्द्रार्कादेरिव रजोनीहाराभ्रपटलादिभिरिव ज्ञाना
१ टुक्षु-रु-कुंक शब्दे-गण-II 26, 27, 28। उणादौ स्थाचतोरूञ्च [१८५] इति णे क्षुणमपराधः । . २ शब्दानु०- ।३ प्रत्यक्षस्य परा०-डे । ४ बहुमान । ५ ज्ञानावरणीयादीनाम्-डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org