SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षलक्ष प्रमाणमीमांसा। पत्वप्रसङ्गात्, किन्तु स्वरूपेण सत्त्वात् पररूपेण चासत्त्वात् भावाभावरूपं वस्तु तथैव प्रमाणानां प्रवृत्तेः । तथाहि-प्रत्यक्षं तावत् भूतलमेवेदं घटादिन भवतीत्यन्वयव्यतिरेकद्वारेण वस्तु परिच्छिन्दत् तदधिकं विषयमभावैकरूपं निराचष्ट इति कं विषयमाश्रित्याभावलक्षणं प्रमाणं स्यात् १ । एवं परोक्षाण्यपि प्रमाणानि भावाभावरूपवस्तुग्रहणप्रवणान्येव, अन्यथाऽसङ्कीर्णस्वस्वविषयग्रहणासिद्धेः, यदाह "अयमेवेति यो पेष भावे भवति निर्णयः। नैष वस्स्वन्तराभावसंवित्त्यनुगमाहते ॥" इति । [श्लोकवा० अभाव० श्लो. १५.] ४०. अथ भवतु भावाभावरूपता वस्तुनः, किं नश्च्छिन्नम् १, वयमपि हि तथैव प्रत्यपीपदाम । केवलं भावांश इन्द्रियसनिकृष्टत्वात् प्रत्यक्षप्रमाणगोचरः अभावांशस्तु 10 न तथेत्यभावप्रमाणगोचर इति कथमविषयत्वं स्यात् ?, तदुक्तम् “न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥१॥ गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥२॥" 15 [श्लोकवा० अभाव० श्लो. १८, २७] ४१. ननु भावांशादभावांशस्याभेदे कथं प्रत्यक्षेणाग्रहणम् १, भेदे वा घटाधभाव- . रहितं भूतलं प्रत्यक्षेण गृह्यत इति घटादयो गृह्यन्त इति प्राप्तम् , तदभावोग्रहणस्य तद्भावग्रहणनान्तरीयकत्वात् । तथा चाभावप्रमाणमपि पश्चात्प्रवृत्तं न तानुत्सारयितुं पटिष्ठं स्यात्, अन्यार्थी सङ्कीर्णस्य सङ्कीर्णताग्रहणात् प्रत्यक्षं भ्रान्तं स्यात् । ____20 . ४२. अपि चायं प्रमाणपञ्चकनिवृत्तिरूपत्वात् तुच्छः। तत एवाज्ञानरूपः कथं प्रमाणं भवेत् ? । तस्मादभावांशात्कथञ्चिदभिन्नं भावांशं परिच्छिन्दता प्रत्यक्षादिना प्रमा नाभावांशो गृहीत एवेति तदतिरिक्तविषयाभावानिर्विषयोऽभावः । तथा च न प्रमाणमिति स्थितम् ॥१२॥ ६४३. विभागमुक्त्वा विशेषलक्षणमाह- . . 25 विशदः प्रत्यक्षम् ॥१३॥ ६४४. सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् 'सम्यगर्थनिर्णयः' इति प्रमाणसामान्यलक्षणमनूद्य 'विशदः' इति विशेषलक्षणं प्रसिद्धस्य प्रत्यक्षस्य विधीयते । तथा च प्रत्यक्षं धर्मि। विशदसम्यगर्थनिर्णयात्मकमिति साध्यो धर्मः । प्रत्यक्षत्वादिति हेतुः। यद्विशदसम्यगर्थनिर्णयात्मकं न भवति न तत् प्रत्यक्षम्, यथा परोक्षमिति व्यतिरेकी । 30 .. १ घटादि न भव० -डे० । २ तदभावग्रहण०-डे०।३ चाभावग्रहणमपि-डे० । ४ अन्यथा सङ्की०-डे । ५-०दिनाभावां-ता०।६ प्रमाणमिति । विभाग०-ता। . इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy