________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० १, सू० १२. प्रमाणेतरते व्यवस्थापयेत् । न च सन्निहितार्थषलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकालभाविनीनां ज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकं निमित्तमुपलक्षयितुं क्षमते । न चायं स्वप्रतीतिगोचराणामपि ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा व्यवस्थापयितुं प्रभवति । तस्माद्यथादृष्टज्ञानव्यक्तिसाधर्म्यद्वारेणेदानीन्तनज्ञानव्यक्तीनां 5 प्रामाण्याप्रामाण्यव्यवस्थापकं परप्रतिपादकं च परोक्षान्तर्गतमनुमानरूपं प्रमाणान्तरमुपासीत।
६३४. अपि च [अ]प्रतिपित्सितमर्थ प्रतिपादयन् 'नायं लौकिको न परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्यात् । न च प्रत्यक्षेण परचेतोवृत्तीनामधिगमोस्ति । चेष्टाविशेष. दर्शनात्तदवगमे च परोक्षस्य प्रामाण्यमनिच्छतोऽप्यायातम् । 10 ६३५. परलोकादिनिषेधश्च न प्रत्यक्षमात्रेण शक्यः कर्तुम् , सन्निहितमात्रविषय
त्वात्तस्य । परलोकादिकं चाप्रतिषिध्य नायं सुखमास्ते प्रमाणान्तरं च नेच्छतीति डिम्भहेवाकः। .
६३६. किश्च, प्रत्यक्षस्याप्याव्यभिचारादेव प्रामाण्यं तच्चार्थप्रतिबद्धलिङ्गशब्दद्वारा समुन्मजतः परोक्षस्याप्याव्यभिचारादेव किं नेष्यते ? व्यभिचारिणोपि परोक्षस्य 15 दर्शनादप्रामाण्यमिति चेत् । प्रत्यक्षस्यापि तिमिरादिदोषादप्रमाणस्य दर्शनात् सर्वत्राप्रामा__ण्यप्रसङ्गः । प्रत्यक्षाभासं तदिति चेत् ; इतरत्रापि तुल्यमेतदन्यत्र पक्षपातात् । धर्मकीर्तिरप्येतदाह
"प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः। प्रमाणान्तरसद्भावः प्रतिषेधाच कस्यचित् ॥ १॥ अर्थस्यासम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता।
प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं व्यम्" ॥२॥ इति । ३७. यथोक्तसङ्ख्यायोगेऽपि च परोक्षार्थविषयमनुमानमेव सौगतैरुपगम्यते तदयुक्तम् ; शब्दादीनामपि प्रमाणत्वात् तेषां चानुमानेऽन्तर्भावयितुमशक्यत्वात् । एकेन तु
सर्वसङ्क्राहिणा प्रमाणेन प्रमाणान्तरसङ्ग्रहे नायं दोषः। तत्र यथा इन्द्रियजमानसात्मसंवेदन25 योगिज्ञानानां प्रत्यक्षेण सङ्ग्रहस्तथा स्मृतिप्रत्यभिज्ञानोहानुमानागमानां परोक्षेण सङ्ग्रहो
लक्षणस्याविशेषात् । स्मृत्यादीनां च विशेषलक्षणानि स्वस्थान एव वक्ष्यन्ते । एवं परोक्षस्योपमानस्य प्रत्यभिज्ञाने, अर्थापत्तेरनुमानेऽन्तर्भावोऽभिधास्यते ॥ ११॥ ___६३८. यत्तु प्रमाणमेव न भवति न तेनान्तर्भूतेन बहिर्भूतेन वा किश्चित् प्रयोजनम् , यथा अभावः । कथमस्याप्रामाण्यम् ? निर्विषयत्वात् इति ब्रूमः । तदेव कथम् ? इति चेत्
भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः ॥१२॥ ६३९. नहि भावैकरूपं वस्त्वस्ति विश्वस्य वैश्वरूप्यप्रसङ्गात्, नाप्यभावैकरूपं नीरू१ सुखेनास्ते०-डे० । २ इत्यत्रा०-डे । ३-०वे भावा०-डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org