________________
प्रमाणविभागः। __ प्रमाणमीमांसा। प्रामाण्यमभ्युपगन्तुम् ; एवं हि परम्परापरिश्रमः परिहृतो भवति । विकल्पस्य चाप्रामाण्ये कथं तन्निमित्तो व्यवहारोऽविसंवादी १ दृष्ट(श्य)विकल्प(ल्प्य)योरर्थयोरेकीकरणेन तैमिरिकज्ञानवत् संवादाभ्युपगमे चोपचरितं संवादित्वं स्यात् । तस्मादनुपचरितमविसंवादित्वं प्रमाणस्य लक्षणमिच्छता निर्णयः प्रमाणमेष्टव्य इति ॥ ८॥
६२८. प्रमाणसामान्यलक्षणमुक्त्वा परीक्ष्य च विशेषलक्षणं वक्तुकामो विभाग- 5 मन्तरेण तद्वचनस्याशक्यत्वात् विभागप्रतिपादनार्थमाह
प्रमाणं द्विधा ॥ ९॥ ६२९. सामान्यलक्षणसूत्रे प्रमाणग्रहणं परीक्षयान्तरितमिति न 'तदा' परामृष्टं किन्तु साक्षादेवोक्तं प्रमाणम् इति । द्विधा द्विप्रकारमेव, विभागस्यावधारणफलत्वात् । . तेन प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः, प्रत्यक्षानुमानागमाः प्रमाणमिति वैशेषिकाः, 10 तान्येवेति साङ्ख्याः , सहोपमानेन चत्वारीति नैयायिकाः, सहार्थापत्या पञ्चेति प्राभाकराः, सहाऽभावेन षडिति भाट्टाः इति न्यूनाधिकप्रमाणवादिनः प्रतिक्षिप्ताः । तत्प्रतिक्षेपश्च वक्ष्यते ॥९॥ .. ६३०. तर्हि प्रमाणद्वैविध्यं किं तथा यथाहुः सौगताः "प्रत्यक्षमनुमानं च" [प्रमाणस० १. २, न्यायबि० १.३ । ] इति, उतान्यथा ? इत्याह
15 प्रत्यक्षं परोक्षं च ॥१०॥ ६३१. अश्नुते अक्ष्णोति वा व्यामोति सकलद्रव्यक्षेत्रकालभावानिति अक्षो जीवः, . अश्नुते विषयम् इति अक्षम्-इन्द्रियं च। प्रतिः प्रतिगतार्थः । अक्षं प्रतिगतं तदाश्रितम् , अक्षाणि चेन्द्रियाणि तानि प्रतिगतमिन्द्रियाण्याश्रित्योज्जिहीते यत् ज्ञानं तत् प्रत्यक्षं वक्ष्यमाणलक्षणम्। अक्षेभ्यः परतो वर्तत इति परेणेन्द्रियादिना चोक्ष्यत इति परोक्षं 20 वक्ष्यमाणलक्षणमेव । चकारः स्वविषये द्वयोस्तुल्यबलत्वख्यापनार्थः । तेन यदाहुः"सकलप्रमाणज्येष्ठं प्रत्यक्षम्” इति तदपास्तम् । प्रत्यक्षपूर्वकत्वादितरप्रमाणानां तस्य ज्येष्ठतेति चेत् । न; प्रत्यक्षस्यापि प्रमाणान्तरपूर्वकत्वोपलब्धेः, लिङ्गात् आप्तोपदेशाद्वा वयादिकमवगम्य प्रवृत्तस्य तद्विषयप्रत्यक्षोत्पत्तेः ॥१०॥ ३२. न प्रत्यक्षादन्यत्प्रमाणमिति लौकायतिकाः । तत्राह
25 व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षतरप्रमाणसिद्धिः ॥११॥
६३३. प्रमाणाप्रमाणविभागस्य, परबुद्धेः, अतीन्द्रियार्थनिषेधस्य च सिद्धिर्नानुमानादिप्रमाणं विना । चार्वाको हि काश्चिज्ज्ञानव्यक्तीः संवादित्वेनाव्यभिचारिणीरुपलभ्यान्याश्च विसंवादित्वेन व्यभिचारिणीः, पुनः कालान्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यं
१ "दृश्यविकल्प्याववेकीकृत्य" -तत्त्वोप० लि. पृ० १११; बृहतीप० १. १. ५-पृ० ५३ -सम्पा० । २'तत् शब्देन । ३-०क्षं च परो०-डे मुक सं-मू०। ४ विषयमिन्द्रि०-ता० । ५-०क्षमितिपूर्व०-३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.