________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० १, सू०८-११. - प्रामाण्यनिश्चयः स्वतः परतो वा ॥ ८॥ ६२२. प्रामाण्यनिश्चयः क्वचित् स्वतः यथाऽभ्यासदशापन्ने स्वकरतलादिज्ञाने, स्नानपानावगाहनोदन्योपशमादावर्थक्रियानि से वा प्रत्यक्षज्ञाने; नहि तत्र परीक्षाका
सास्ति प्रेक्षावताम् , तथाहि-जलज्ञानम् , ततो दाहपिपासातस्य तत्र प्रवृत्तिः, ततस्त5 त्प्राप्तिः, ततः स्नानपानादीनि, ततो दाहोदन्योपशम इत्येतावतैव भवति कृती प्रमाता न
पुनर्दाहोदन्योपशमज्ञानमपि परीक्षते इत्यस्य स्वतः प्रामाण्यम् । अनुमाने तु सर्वस्मिन्नपि सर्वथा निरस्तसमस्तव्यभिचाराशङ्के स्वत एव प्रामाण्यम् , अव्यभिचारिलिङ्गसमुत्थत्वात् । न लिङ्गाकारं ज्ञानं लिङ्गं विना, न च लिङ्गं लिङ्गिनं विनेति ।
- ६२३. क्वचित परतः प्रामाण्यनिश्चयः, यथा अनभ्यासदशापन्ने प्रत्यक्षे । नहि तत् . 10 अर्थन गृहीताव्यभिचारमिति तदेकेविषयात् संवादकात् ज्ञानान्तराद्वा, अर्थक्रियानि -
साद्वा, नान्तरीयार्थदर्शनाद्वा तस्य प्रामाण्यं निश्चीयते। तेषां च स्वतः प्रामाण्यनिश्चयानानवस्थादिदौस्थ्यावकाशः।
२४. शाब्दे तु प्रमाणे दृष्टार्थेऽर्थाव्यभिचारस्य दुर्ज्ञानत्वात् संवादाद्यधीनः परतः प्रामाण्यनिश्चयः, अदृष्टार्थे तु दृष्टार्थग्रहोपराग-नष्ट-मुष्टयादिप्रतिपादकानां संवादेन 15 प्रामाण्यं निश्चित्य संवादमन्तरेणाप्याप्तोक्तत्वेनैव प्रामाण्यनिश्चय इति सर्वमुपपन्नम् ।
- ६२५. "अर्थोपलब्धिहेतुः प्रमाणम्” इति नैयायिकाः । तत्रार्थोपलब्धौ हेतुत्वं यदि निमित्तत्वमात्रम् । तदा तत् सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्वप्रसङ्गः। अथ कर्तृकर्मादिविलक्षणं करणं हेतुशब्देन विवक्षितम् । तर्हि तत् ज्ञानमेव युक्तं नेन्द्रिय
सन्निकर्षादि, यस्मिन् हि सत्यर्थ उपलब्धो भवति से तत्करणम् । न च इन्द्रियसन्निकर्ष20 सामयादौ सत्यपि ज्ञानाभावे सँ भवति, साधकतमं हि करणमव्यवहितफलं च तदिष्यते,
व्यवहितफलस्यापि करणत्वे दधिभोजनादेरपि तथाप्रसङ्गः। तन्न ज्ञानादन्यत्र प्रमाणत्वम् , अन्यत्रोपचारात् ।
६२६. "सम्यगनुभवसाधनं प्रमाणम्।। [ न्यायसा० पृ० १] इत्यत्रापि साधनग्रहणात् कर्तृकर्मनिरासेन करणस्य प्रमाणत्वं सिध्यति, तथाप्यव्यवहितफलत्वेन 25 साधकतमत्वं ज्ञानस्यैवेति तदेव प्रमाणत्वेनैष्टव्यम् । ...
६२७. "प्रमाणमविसंवादि ज्ञानम्" [प्रमाणवा० २. १] इति सौगताः। तत्रापि यद्यविकल्पकं ज्ञानम् तदा न तद् व्यवहारजननसमर्थम् । सांव्यवहारिकस्य चैतत् प्रमाणस्य लक्षणमिति च भवन्तः, तत्कथं तस्य प्रामाण्यम् ? उत्तरकालभाविनो व्यवहारजननसमर्थाद्विकल्पात् तस्य प्रामाण्ये याचितकमण्डनन्यायः, वरं च व्यवहारहेतोर्विकल्पस्यैव
१ लिङ्गग्रहणपरिणामि। २ तदेकदेशविष०-डे । ३ तदेकविषयसंवादकज्ञानान्तरादीनाम् । ५ वाक्यानाम् । ५ स- ज्ञानलक्षणोऽर्थः । तस्योपलब्धत्वकारणम् ।।७ अर्थोपलम्भः । - संगतो व्यवहारः प्रयोजन]मस्येति। अविकल्पकस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org