SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रमाणपरीक्षा । ] प्रमाणमीमांसा। ६१६. स्मृतेश्च प्रमाणत्वेनाभ्युपगताया गृहीतग्राहित्वमेव सतत्त्वम् । यैरपि स्मृतेरप्रामाण्यमिष्टं तैरप्यर्थादनुत्पाद एव हेतुत्वेनोक्तो न गृहीतग्राहित्वम् , यदाह "न स्मृतरप्रमाणत्वं गृहीतग्राहिताकृतम् । अपि स्वनर्थजन्यत्वं तदप्रामाण्यकारणम्” [न्यायम• पृ० २३] इति ॥४॥ ६१७. अथ प्रमाणलक्षणप्रतिक्षिप्तानां संशयानध्यवसायविपर्ययाणां लक्षणमाह- .. अनुभयत्रोभयकोटिस्पर्शी प्रत्ययः संशयः ॥ ५॥ . ६१८. अनुभयस्वभावे वस्तुनि उभयान्तपरिमर्शनशीलं ज्ञानं सर्वात्मना शेत इवात्मा यस्मिन् सति स संशयः, यथा अन्धकारे दूरादुर्दाकारवस्तूपलम्भात् साधकबाधकप्रमाणाभावे सति 'स्थाणुर्वा पुरुषो वा' इति प्रत्ययः । अनुभयत्रग्रहणमुभयरूपे वस्तुन्युभयको- 10 टिसंस्पर्शेऽपि संशयत्वनिराकरणार्थम्, यथा 'अस्ति च नास्ति च घट', 'नित्यश्वानित्यधात्मा' इत्यादि ॥५॥ विशेषानुल्लेख्यनध्यवसायः ॥ ६॥ १९. दूरान्धकारादिवशादसाधारणधर्मावमर्शरहितः प्रत्ययः अनिश्चयात्मकत्वात् अनध्यवसायः, यथा 'किमेतत्' इति । यदप्यविकल्पकं प्रथमक्षणभावि परेषां प्रत्यक्ष- 15 प्रमाणत्वेनाभिमतं तदप्यनध्यवसाय एव, विशेषोल्लेखस्य तत्राप्यभावादिति ॥६॥ अतस्मिंस्तदेवेति विपर्ययः ॥७॥ २०. यत् ज्ञाने प्रतिभासते तद्रूपरहिते वस्तुनि 'तदेव' इति प्रत्ययो विपर्यासरूपत्वाद्विपर्ययः, यथा धातुवैषम्यान्मधुरादिर्घ द्रव्येषु तिक्तादिप्रत्ययः, तिमिरादिदोषात् एकस्मिनपि चन्द्रे द्विचन्द्रादिप्रत्ययः, नौयानात् अगच्छत्स्वपि वृक्षेषु गच्छत्प्रत्ययः, आशुभ्र- 20 मणात् अलातादावचक्रेऽपि चक्रप्रत्यय इति । अवसितं प्रमाणलक्षणम् ॥ ७॥ ६२१. ननु अस्तूक्तलक्षणं प्रमाणम् । तत्प्रामाण्यं तु स्वतः, परतो वा निश्चीयेत? न तावत् स्वतः तद्धि श्व(स्व)संविदितत्वात् ज्ञानमित्येव गृह्णीयात्, न पुनः सम्यक्त्वलक्षणं प्रामाण्यम् , ज्ञानत्वमानं तु प्रमाणाभाससाधारणम् । अपि च स्वतःप्रामाण्ये सर्वेषामविप्रतिपत्तिप्रसङ्गः। नापि परतः परं हि तद्गोचरगोचरं वा ज्ञानम् अभ्युपेयेत, अर्थक्रियानि संवा, 25 तद्गोचरनान्तरीयकार्थदर्शनं वा ? तच्च सर्व स्वतोऽनवधृतप्रामाण्यमव्यवस्थितं सत् कथं पूर्व प्रवर्तकं ज्ञानं व्यवस्थापयेत् ? स्वतो वाऽस्य प्रामाण्ये कोऽपराधः प्रवर्तकज्ञानस्य येन तस्यापि तत्र स्यात् ? न च प्रामाण्यं ज्ञायते स्वत इत्युक्तमेय, परतस्त्वनवस्थेत्याशङ्कयाह १ खरूपम् । २ उभयेत्युपलक्षणम् आ(त्र्या)दिकोटिसंस्पर्शेऽपि संशयस्य सद्भावात् । ३-०टिसंस्प०-डे । ४- दिद्रव्ये०-डे। उल्मुकादौ। ६ प्रमाणम् । तद्धि संवि०-३०। ७ तस्य प्रथमज्ञानस्य गोचरो विषयो जलादिः, स गोचरो यस्य द्वितीयज्ञानस्य । ८ तस्य ज्ञानस्य गोचरोऽग्न्यादिस्तदविनाभूतो धूमादिः । ९ पूर्वप्रवर्तकज्ञान-२०। १० तत्-खतः प्रामाण्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy