________________
आचार्यश्रीहेमचन्द्रविरचिता । अ० १, आ० १, सू० ३-७. संवेदनस्य प्रकाश्यत्वात् प्रकाशकत्वमसिद्धमिति चेत्, न; अज्ञाननिरासादिद्वारेण प्रकाशकत्वोपपत्तेः । न च नेत्रादिभिरनैकान्तिकता; तेषां भावेन्द्रियरूपाणामेव प्रकाशकत्वात् । भावेन्द्रियाणां च स्वसंवेदनरूपतैवेति न व्यभिचारः। तथा, संवित् स्वप्रकाशा,
अर्थप्रतीतित्वात् , यः स्वप्रकाशो न भवति नासावर्थप्रतीतिः यथा घटः । तथा, यत् ज्ञानं 5 तत् आत्मबोधं प्रत्यनपेक्षितपरव्यापारम्, यथा गोचराँन्तरग्राहिज्ञानोत् प्राग्भावि गोचरान्तर
पाहिज्ञानप्रबन्धस्यान्त्यज्ञानम् , ज्ञानं च विवादाध्यासितं रूपादिज्ञानमिति । संवित् स्वप्रकाशे स्वावान्तरजातीयं नापेक्षते, वस्तुत्वात् , घटवत् । संवित् परप्रकाश्या, वस्तु'त्वात् , घटवदिति चेत्, न; अस्याप्रयोजकत्वात् , न खलु घटस्य वस्तुत्वात् परप्रकाश्यता
अपि तु बुद्धिव्यतिरिक्तत्वात् । तस्मात् स्वनिर्णयोऽपि प्रमाणलक्षणमस्त्वित्याशङ्याह10 खनिर्णयः सन्नप्यलक्षणम् , अप्रमाणेऽपि भावात् ॥ ३॥ .
१३. सन्नपि इति परोक्तमनुमोदते । अयमर्थः-न हि अस्ति इत्येव सर्व लक्षणत्वेन वाच्यं किन्तु यो धर्मों विपक्षाद्यावर्त्तते । स्वनिर्णयस्तु अप्रमाणेऽपि संशयादौ वर्त्तते नहि काचित् ज्ञानमात्रा सास्ति या न स्वसंविदिता नाम । ततो न स्वनिर्णयो लक्षण
मुक्तोऽस्माभिः, वृद्धस्तु परीक्षार्थमुपक्षिप्त इत्यदोषः ॥३॥ 15. ११४. ननु च परिच्छिन्नमर्थ परिच्छिन्दता प्रमाणेन पिष्टं पिष्टं स्यात् । तथा च
गृहीतग्राहिणां धारावाहिज्ञानानामपि प्रामाण्यप्रसङ्गः । ततोऽपूर्वार्थनिर्णय इत्यस्तु
लक्षणम, यथाहु:-"स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम्" [परीक्षामु० १.१] . इति, "तंत्रापूर्वार्थविज्ञानम्” इति च । तत्राह
ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि नाप्रामाण्यम् ॥४॥ 20 ६१५, अयमर्थः-द्रव्यापेक्षया वा गृहीतग्राहित्वं विप्रतिषिध्येत पर्यायापेक्षया वा ?
तत्र पर्यायापेक्षया धारावाहिज्ञानानामपि गृहीतग्राहित्वं न सम्भवति, क्षणिकत्वात् पर्यायाणाम् । तत्कथं तभिवृत्त्यर्थं विशेषणमुपादीयेत? अथ द्रव्यापेक्षया; तदप्ययुक्तम् । द्रव्यस्य नित्यत्वादेकत्वेन गृहीतग्रहीष्यमाणावस्थयोन भेदः। ततश्च कं विशेषमाश्रित्य
ग्रहीष्यमाणग्राहिणः प्रामाण्यम्, न गृहीतग्राहिणः १ अपि च अवग्रहेहादीनां गृहीत25 ग्राहित्वेऽपि प्रामाण्यमिष्यत एव । न चैषां भिनविषयत्वम् ; एवं अवगृहीतस्य अनीह
नात् , ईहितस्य अनिश्चयादसमञ्जसमापद्येत । न च पर्यायापेक्षया अनधिगतविशेषावसायादपूर्वार्थत्वं वाच्यम् । एवं हि न कस्यचिद् गृहीतग्राहित्वमित्युक्तप्रायम् । .
१-०मिति न अज्ञा०-ता०।३ आदे: संशयादिनिरासः । ३ ज्ञानान्तरानपेक्षितव्यापारम् । “घटविषयम् । ५-०ज्ञानप्रा०-डे०।६ केवलान्वभ्यनुमानम् । ७ज्ञानान्तरम् । ८ लक्षणं वाच्यं-डे।९-०वाहिकझानाडे। १. स्वस्य अपूर्वार्थस्य च। ११ तथापू०-डे। तवेति प्रत्यं. भट्ठः (१)। ११ प्राभाकराः । १३- हिकज्ञा-डे०।१४ गृहीतार्थनाहिज्ञाननिरासायेत्यर्थः । १५ दीयते-डे....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org