________________
प्रमाणलक्षणम् ।]
. प्रमाणमीमांसा । ६९. तत्र निर्णयः संशयाऽनध्यवसायाविकल्पकत्वरहितं ज्ञानम् । ततो निर्णय-पदेनाज्ञानरूपस्येन्द्रियसन्निकर्षादेः , ज्ञानरूपस्यापि संशयादेः प्रमाणत्वनिषेधः ।।
६१०. अर्यतेऽर्थ्यते वा अर्थो हेयोपादेयोपेक्षणीयलक्षणः, हेयस्य हातुम् , उपादेयस्योपादातुम् , उपेक्षणीयस्योपेक्षितुम् अर्यमानत्वात् । न चानुपादेयत्वादुपेक्षणीयो हेय एवान्तर्भवति; अहेयत्वादुपादेय एवान्तर्भावप्रसक्तेः । उपेक्षणीय एव च मूर्दाभिषिक्तोऽर्थः, 5 योगिभिस्तस्यैवार्यमाणत्वात् । अस्मदादीनामपि हेयोपादेयाभ्यां भूयानेवोपेक्षणीयोऽर्थः तन्नायमुपेक्षितुं क्षमः । अर्थस्य निर्णय इति कर्मणि षष्ठी, निर्णीयमानत्वेन व्याप्यत्वादर्थस्य । अर्थग्रहणं च स्वनिर्णयव्यवच्छेदार्थ तस्य सतोऽप्यलक्षणत्वादिति वक्ष्यामः ।
६११. सम्यग्-इत्यविपरीतार्थमव्ययं समञ्चतेर्वा रूपम् । तच्च निर्णयस्य विशेषणम् , तस्यैव सम्यक्त्वाऽसम्यक्त्वयोगेन विशेष्टुमुचितत्वात् ; अर्थस्तु स्वतो न सम्यग् नाप्य- 10 सम्यगिति सम्भवव्यभिचारयोरभावान विशेषणीयः । तेन सम्यग् योर्थनिर्णय इति विशेषणाद्विपर्ययनिरासः । ततोऽतिव्याप्त्यव्याप्त्यसम्भवदोषविकलमिदं प्रमाणसामान्यलक्षणम् ॥२॥ .. ६१२. ननु अर्थनिर्णयवत् स्वनिर्णयोऽपि वृद्धःप्रमाणलक्षणत्वेनोक्तः-"प्रमाणं स्वपराभासि" [न्यायाव० ] इति, "स्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम्" [तत्त्वार्थश्लोकंवा० 15 १.१०.७७] इति च । न चासविसन्, 'घटमहं जानामि' इत्यादौ कर्तृकर्मवत ज्ञप्तेरप्यवभासमानत्वात् । न च अप्रत्यक्षोपलम्भस्यार्थदृष्टिः प्रसिद्धयति । न च ज्ञानान्तरात् तद्पलम्भसम्भावनम् , तस्याप्यनुपलब्धस्य प्रस्तुतोपलम्भप्रत्यक्षीकाराभावात् । उपलम्भान्तरसम्भावने चानवस्था । अर्थोपलम्भात् तस्योपलम्भे अन्योन्याश्रयदोषः। एतेने 'अर्थस्य सम्भवो नोपपद्येत नै चेत] ज्ञानं स्यात्' इत्यर्थापत्त्यापि तद्पलम्भः प्रत्युक्तः तस्या अपि झपकत्वे- 20 नाज्ञाताया ज्ञापकत्वायोगात् । अर्थापत्यन्तरात् तज्ज्ञाने अनवेस्थेतरेतराश्रयदोषापत्तेस्तदवस्थः परिभवः । तस्मादर्थोन्मुखतयेव स्वोन्मुखतयापि ज्ञानस्य प्रतिभासात् स्वनिर्णयात्मकत्वमप्यस्ति । ननु अनुभूतेरनुभाव्यत्वे घटादिवंदननुभूतित्वप्रसङ्गः, मैवं वोचः: ज्ञातुओतृत्वेनेव अनुभूतेरनुभूतित्वेनैवानुभवात् । न चानुभूतेरनुभाव्यत्वं दोषः; अर्थापेक्षयानुभूतित्वात् , स्वापेक्षयाऽनुभाव्यत्वात् , स्वपितृपुत्रापेक्षयैकस्य पुत्रत्वपितृत्ववत् विरो- 25 धाभावात् । न च स्वात्मनि क्रियाविरोधः; अनुभवसिद्धेऽर्थे विरोधासिद्धेः। अनुमानाच्च स्वसंवेदनसिद्धिः; तथाहि-ज्ञानं प्रकाशमानमेवार्थ प्रकाशयति, प्रकाशकत्वात् , प्रदीपवत् । . १ प्रथमाक्षसन्निपातेन यत् ज्ञानम् । यद्यप्यनध्यवसाय एव निर्विकल्पकं तथाप्याहत्य सौगतमतनिराकरणायाविकल्पकत्वेनेति पदम् । २-०ल्पत्व०-डे। ३ आदिपदात् ज्ञातृव्यापारः । ४ अर्यमानत्वात् । ५"शकष ......" [ हैमश० ५. ४. ९० ] इति तुम् । ६ योग्यः । ७ तत्तु निर्ण०-ता० । ८ जडत्वात् । ९ सम्भवे । अमिचारे च विशेषणमर्थवद् भवति । १० निश्चयात्मकम् । ११ खनिर्णयः । १२ पुरुषस्य । १३ खनिर्णयोपलम्भ० । १४ अनवस्थादोषेण । १५ अर्थोऽस्यास्तीत्येवंरूपो व्यवहारः । १६ न चेतत् ज्ञा०-डे । १७ अर्थोपलम्भोपलम्भः। १८ अर्थापत्तिज्ञाने । १९ अर्थापत्त्यन्तरस्यापि ज्ञानार्थ पुनरप्यर्थापत्त्यन्तरं कल्प(म्य)मित्यनवस्था । २० यदा त्वर्थापत्यन्तरस्य प्रस्तुतार्थापत्तेः ज्ञानं तदेतरेतराश्रयः। २१ कर्मत्वात् । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org