________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० १, सू० २. इत्यर्थः । अनेन शब्दानुशासनादिभिरस्यैककर्तृकत्वमाह । अधिकारार्थस्य च अथ-शब्दस्यान्यार्थनीयमानकुसुमदामजलकुम्भादेर्दर्शनमिव श्रवणं मङ्गलायापि कल्पत इति । मङ्गले च सति परिपन्थिविघ्नविघातात् अक्षेपेण शास्त्रसिद्धिः, आयुष्मच्छोतृकता च भवति ।
परमेष्ठिनमस्कारादिकं तु मङ्गलं कृतमपि न निवेशितं लाघवार्थिनों सूत्रकारेणेति । . 5 ६५. प्रकर्षेण संशयाँदिव्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत् प्रमाणं प्र
मायां साधकतमम् , तस्य मीमांसा-उद्देशादिरूपेण पर्यालोचनम् । त्रयी हि शास्त्रस्य प्रवृत्तिः-उद्देशो लक्षणं परीक्षा च। तत्र नामधेयमात्रकीर्तनमुद्देशः, यथा इदमेव सूत्रम् । उद्दिष्टस्यासाधारणधर्मवचनं लक्षणम् । तद् द्वेधा सामान्यलक्षणं विशेषलक्षणं च । सामान्य
लक्षणमनन्तरमेव सूत्रम् । विशेषलक्षणम् "विशदः प्रत्यक्षम्" [१.१.१३] इति । विभा10 गस्तु विशेषलक्षणस्यैवाङ्गमिति न पृथगुच्यते । लक्षितस्य 'इदमित्थं भवति नेत्थम्' इति न्यायतः परीक्षणं परीक्षा, यथा तृतीयं सूत्रम् ।
६६. पूजितविचारवचनश्च मीमांसा-शब्दः। तेन न प्रमाणमात्रस्यैव विचारोत्राधिकृतः, किन्तु तदेकदेशभूतानां दुर्नयनिराकरणद्वारेण परिशोधितमार्गाणां नयानामपि-"प्र
माणनयैरधिगमः" [तत्त्वा० १.६.] इति हि वाचकमुख्यः, सकलपुरुषार्थेषु मूर्द्धाभिषिक्तस्य 15 सोपार्यस्य सप्रतिपक्षस्य मोक्षस्य च । एवं हि पूजितो विचारो भवति । प्रमाणमात्र
विचारस्तु प्रतिपक्षनिराकरणपर्यवसायी वाकलहमानं स्यात् । तद्विवक्षायां तु "अथ प्रमाणपरीक्षा" [प्रमाणपरी० पृ० १] इत्येव क्रियेत । तत् स्थितमेतत्-प्रमाणनयपरिशोधितप्रमेयमार्ग सोपायं सप्रतिपक्षं मोक्षं विवक्षितुं मीमांसाग्रहणमकार्याचार्येणेति ॥१॥ ... ६७. तत्र प्रमाणसामान्यलक्षणमाह20
सम्यगर्थनिर्णयः प्रमाणम् ॥ २॥ ८. प्रमाणम्-इति लक्ष्यनिर्देशः, शेषं लक्षणम् , प्रसिद्धानुवादेन ह्यप्रसिद्धस्य विधानं लक्षणार्थः । तत्र यत्तदविवादेन प्रमाणमिति धम्मि प्रसिद्धं तस्य सम्यगर्थनिर्णयात्मकत्वं धर्मो विधीयते । अत्र प्रमाणत्वादिति हेतुः । न च धम्मिणो हेतुत्वमनुपपन्नम् ; भवति
हि विशेषे धम्मिणि तत्सामान्यं हेतुः, यथा अयं धूमः साग्निः, धूमत्वात् , पूर्वोपलब्ध25 धूमवत् । न च दृष्टान्तमन्तरेण न गमकत्वम् । अन्तायैव साध्यसिद्धेः, 'सात्मकं
जीवच्छरीरम् , प्राणादिमत्त्वात्' इत्यादिवदिति दर्शयिष्यते । . १ अस्य-शास्त्रस्य । २आयुष्मन्तः श्रोतारोऽस्मिन् । ३ आदेः स्तुति-नामसङ्कीर्तने । ४-०र्थिना शास्त्रका - डे. मु०। ५ आदिग्रहणात् विपर्ययानध्यवसायौ। ६ सङ्ख्याद्वारेण भेदकथनं विभागः, यथा “प्रमाणं द्वैधा। प्रत्यक्षं परोक्षं च ।" [१.१.९-१०]। ७-०स्तु लक्ष०-ता०। ८ अङ्गम्-अवयवः कारणमिति यावत् । ९-०तीयसू०-डे० । १० परिशोधितः प्रमाणानां मार्गोऽनेकान्तात्मकं वस्तु यैः। ११ अधिगमाय शास्त्रस्य प्रवृत्तिन वाकलहाय । १२ ज्ञानदर्शनचारित्ररूपोपायसहितस्य । १३ प्रतिपक्षः संसारः। १४ यथा अकलङ्केन (2) [इयं टिप्पणकारस्य भ्रान्तिः मूलादायाता भाति। वस्तुतःप्रमाणपरीक्षा न अकलङ्ककृता किन्तु. विद्यानन्दकृता-सम्पा०]। १५ अनेकान्तात्मकवस्तुरूपो मार्गो यस्य मोक्षस्य। १६ व्यक्तिरूपे धर्मिणि, तद्यथा विवादाध्यासितं घटप्रत्यक्षं सम्यगर्थनिर्णयात्मकम् , प्रत्यक्षत्वादिति। १७ “न दृष्टान्तोऽनुमानाजम्" [१. २. १८] इति सूत्रे। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org