________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता स्वोपज्ञवृत्तिसहिता
॥ प्रमा ण मी मां सा ॥
अनन्तदर्शनेज्ञानवीर्यानन्दमयात्मने ।
नमोऽर्हते. कृपाक्लृप्तं धर्मतीर्थाय तायिने ॥ १ ॥ बोधिबीजमुपस्कर्तुं तत्त्वाभ्यासेन धीमताम् । जैनसिद्धान्तसूत्राणां स्वेषां वृत्तिर्विधीयते ॥ २॥
६१. ननु यदि भवदीयानीमानि जैनसिद्धान्तसूत्राणि तर्हि भवतः पूर्व कानि किमीया- 6 नि वा तान्यासन्निति ? अत्यल्पमिदमन्वयुङ्क्थाः । पाणिनि - पिङ्गल- कणादा-ऽक्षपादाविभ्योऽपि पूर्वं कानि किमीयानि वा व्याकरणादिसूत्राणीत्येतदपि पर्यनुयुङ्क्ष्व ! अनादय एवैता विद्याः संक्षेपविस्तरविवक्षया नवनवीभवन्ति तत्तत्कर्तृकाचोच्यन्ते । किं नाश्रौषीः 'न कदाचिदनीदृशं जगत्' इति ? यदि वा प्रेक्षस्व वाचकमुख्यविरचितानि सकलशास्त्रचूडामणिभूतानि तत्त्वार्थसूत्राणीति ।
१२. यद्येवम्-अकलङ्क-धर्मकीर्त्त्यादिवत् प्रकरणमेव किं नारभ्यते, किमनया सूत्रकारत्वाहोपुरुषिकया ? मैवं वोचः भिन्नरुचियं जनः ततो नास्य स्वेच्छाप्रतिबन्धे लौकिकं राजकीयं वा शासनमस्तीति यत्किञ्चिदेतत् ।
१३. तत्र वर्णसमूहात्मकैः पदैः, पदसमूहात्मकैः सूत्रैः सूत्रसमूहात्मकैः प्रकरणैः, - प्रकरणसमूहात्मकैः आह्निकैः, आह्निकसमूहात्मकैः पञ्चभिरध्यायैः शास्त्रमेतदरचयदा - 15 चार्यः । तस्य च प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयमभिधातुमिदमादिसूत्रम्
अथ प्रमाणमीमांसा ॥ १ ॥
९४. अथ-इत्यस्य अधिकारार्थत्वाच्छास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य प्रमाणस्पाभिधानात् सकलशास्त्रतात्पर्यव्याख्यानेन प्रेक्षावन्तो बोधिताः प्रवर्तिताश्च भवन्ति । आनन्तर्यार्थो वा अंथ-शब्दः, शब्द- काव्य-छन्दोनुशासनेभ्योऽनन्तरं प्रमाणं मीमांस्यत 20
१ तत्त्वश्रद्धानं सामान्यज्ञानं वा दर्शनम् । २ ० रचित • । ३ प्रेत्य जिनधर्मप्राप्तिर्बोधस्तस्य बीजं सम्यक्त्वम् । ४ कस्य सत्कान ? ५ वृथाभिनिवेशेन । ६० व्याख्याने प्रेक्षा०ता० ।
Jain Education International
10
For Private & Personal Use Only
www.jainelibrary.org