________________
१५
मुख्यप्रत्यक्षस्य निरूपणम् । ] प्रमाणमीमांसा।
६२. नाप्यागमस्तद्बाधकः तस्यापौरुषेयस्यासम्भवात्। सम्भवे वा तबाधकस्य तस्यादर्शनात् । सर्वज्ञोपज्ञश्चागमः कथं तद्बाधकः १, इत्यलमतिप्रसङ्गेनेति ॥ १७॥ ६६३. न केवलं केवलमेव मुख्यं प्रत्यक्षमपि त्वन्यदपीत्याह
तत्तारतम्ये ऽवधिमनःपर्यायौ च ॥१८॥ ६६४. सर्वथावरणविलये केवलम् , तस्यावरणविलयस्य 'तारतम्ये' आवरणक्षयो- 5 पशमविशेषे तन्निमित्तकः 'अवधिः' अवधिज्ञानं 'मनःपर्याय:' मनःपर्यायज्ञानं च मुख्यमिन्द्रियानपेक्षं प्रत्यक्षम् । तत्रावधीयत इति 'अवधिः' मर्यादा सा च "रूपियवधेः" [ तत्त्वा० १.२८ ] इति वचनात् रूपवद्र्व्यविषया अवध्युपलक्षितं ज्ञानमप्यवधिः। स द्वेधा भवप्रत्ययो गुणप्रत्ययश्च । तत्राद्यो देवनारकाणां पक्षिणामिव वियद्गमनम् । गुणप्रत्ययो मनुष्याणां तिरश्वां च।
-
10 ६६५. मनसो द्रव्यरूपस्य पर्यायाश्चिन्तनानुगुणाः परिणामभेदास्तद्विषयं ज्ञानं 'मनः- ' पर्यायः । तथाविधमनःपर्यायान्यथानुपपश्या तु यद्बाह्यचिन्तनीयार्थज्ञानं तत् आनुमानिकमेव न मनःपर्यायप्रत्यक्षम्, यदाहुः
"जाणइ बज्मेणुमाणेणं।" [विशेषा• गा० ८१४ ] इति । ६६. ननु रूपिद्रव्यविषयत्वे क्षायोपशमिकत्वे च तुल्ये को विशेषोऽवधिमन:- 15 पर्याययोरित्याह
विशुद्धिक्षेत्रस्वामिविषयभेदात् तद्भेदः ॥१९॥ .६६७. सत्यपि कथञ्चित्साधर्म्य विशुद्धयादिभेदादवधिमनःपर्यायज्ञानयोर्भेदः । तत्रावधिज्ञानान्मनःपयोयज्ञानं विशुद्धतरम् । यानि हि मनोद्रव्याणि अवधिज्ञानी जानीते तानि मनःपर्यायज्ञानी विशुद्धतराणि जानीते ।
20 ६६८. क्षेत्रकृतश्चानयोर्भेदः-अवधिज्ञानमङ्गुलस्यासङ्ख्यभागादिषु भवति आ सर्वलोकात् , मनःपर्यायज्ञानं तु मनुष्यक्षेत्र एव भवति । ___६६९. स्वामिकृतोऽपि-अवधिज्ञानं संयतस्यासंयतस्य संयतासंयतस्य च सर्वगतिषु भवति; मनःपर्यायज्ञानं तु मनुष्यसंयतस्य प्रकृष्टचारित्रस्य प्रमत्तादिषु क्षीणकषायान्तेषु गुणस्थानकेषु भवति । तत्रापि वर्धमानपरिणामस्य नेतरस्य । वर्धमानपरिणामस्यापि 25 ऋद्धिप्राप्तस्य नेतरस्य । ऋद्धिप्राप्तस्यापि कस्यचिन्न सर्वस्येति । ____७०. विषयकृतश्च-रूपवद्रव्येष्वसर्वपर्यायेष्ववधेविषयनिबन्धस्तदनन्तभांगे मन:पर्यायस्य इति । अवसितं मुख्यं प्रत्यक्षम् ॥१९॥
१ उपज्ञा ज्ञानमाद्यं स्यात्-अमि• ६. ९-सम्पा० । २ अष्टादशं एकोनविंशतितमं चेति सूत्रद्वयं ता- मू० प्रतौ भदेकचिहं विना एकसूत्रत्वेन लिखितं दृश्यते। ३ क्षेत्रतश्च-ता० । ४ मनोलक्षणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org