________________
निमहस्थानस्य निरूपणम् ।] प्रमाणमीमांसा । सिद्धत्वव्यवच्छेदार्थम् । तर्हि साध्याधारसन्देहापनोदार्थ गम्यमानाया अपि प्रतिज्ञायाः, प्रतिज्ञाहेतूदाहरणोपनयानामेकार्थत्वप्रदर्शनार्थ निगमनस्य वचनं किं न स्यात् ? । नहि प्रतिज्ञादीनामेकार्थत्वोपदर्शनमन्तरेण सङ्गतत्वं घटते, भिन्नविषयप्रतिज्ञादिवत् । ननु प्रतिज्ञातः साध्यसिद्धौ हेत्वादिवचनमनर्थकमेव स्यात्, अन्यथा नास्याः साधनाङ्गतेति चेत्, तर्हि भवतोऽपि हेतुतः साध्यसिद्धौ दृष्टान्तोऽनर्थकः 5 स्यात् , अन्यथा नास्य साधनाङ्गतेति समानम् । ननु साध्यसाधनयोाप्तिप्रदर्शनार्थत्वात् नानर्थको दृष्टान्तः, तत्र तदप्रदर्शने हेतोरगमकत्वात् ; इत्यप्ययुक्तम् , सर्वानित्यत्वसाधने सत्त्वादेर्दृष्टान्तासम्भवतोऽगमकत्वानुषङ्गात् । विपक्षव्यावृत्त्या सत्त्वादेर्गमकत्वे वा सर्वत्रापि हेतौ तथैव गमकत्वप्रसङ्गात् दृष्टान्तोऽनर्थक एव स्यात् । विपक्षव्यावृत्त्या च हेतुं समर्थयन् कथं प्रतिज्ञा प्रतिक्षिपेत् । तस्याश्चानभिधाने क हेतुः साध्यं वा 10 वर्तते ? । गम्यमाने प्रतिज्ञाविषय एवेति चेत् । तर्हि गम्यमानस्यैव हेतोरपि समर्थनं स्यान्न तूक्तस्य । अथ गम्यमानस्यापि हेतोर्मन्दमतिप्रतिपत्त्यर्थं वचनम् । तथा प्रतिज्ञावचने कोऽपरितोषः ।
६१०७. यच्चेदमसाधनाङ्गमित्यस्य व्याख्यानान्तरम्-साधर्म्यण हेतोर्वचने वैधर्म्यवचनम् , वैधयेण च प्रयोगे साधर्म्यवचनं गम्यमानत्वात् पुनरुक्तमतो न साधनाङ्गम् ; 15 इत्यप्यसाम्प्रतम् , यतः सम्यक्साधनसामर्थ्येन स्वपक्षं साधयतो वादिनो निग्रहः स्यात् , असाधयतो वा ? । प्रथमपक्षे न साध्यसिधाप्रतिबन्धिवचनाधिक्योपालम्भमात्रेणास्य निग्रहः, अविरोधात् । नन्वेवं नाटकादिघोषणतोऽप्यस्य निग्रहो न स्यात; सत्यमेतत् , स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोषाभावाल्लोकवत् , अन्यथा ताम्बूलभक्षणभ्रूक्षेप-खाद्कृत-हस्तास्फालनादिभ्योऽपि सत्यसाधनवादिनोऽपि निग्रहः स्यात् । अथ 20 स्वपक्षमप्रसाधयतोऽस्य ततो निग्रहः, नन्वत्रापि किं प्रतिवादिना स्वपक्षे साधिते वादिनो वचनाधिक्योपालम्भो निग्रहो लक्ष्येत, असाधिते वा ? | प्रथमपक्षे स्वपक्षसिध्यैवास्य निग्रहाद्वचनाधिक्योद्धावनमनर्थकम् , तस्मिन् सत्यपि पक्षसिद्धिमन्तरेण जयायोगात् । द्वितीयपक्षे तु युगपद्वादिप्रतिवादिनोः पराजयप्रसङ्गो जयप्रसङ्गो वा स्यात् , स्वपक्षसिद्धेरभावाविशेषात् ।
25 ६१०८. ननु न स्वपक्षसिध्यसिद्धिनिबन्धनौ जयपराजयौ, तयोर्ज्ञानाज्ञाननिबन्धनत्वात् । साधनवादिना हि साधुसाधनं ज्ञात्वा वक्तव्यम् , दूषणवादिना च दूषणम्। तत्र सौधर्म्यवचनाद्वैधर्म्यवचनाद्वाऽर्थस्य.प्रतिपत्तौ तदुभयवचने वादिनः प्रतिवादिना सभायामसाधनाङ्गवचनस्योद्भावनात् साधुसाधनाज्ञानसिद्धेः पराजयः । प्रतिवादिनस्तु तद्दषणज्ञाननिर्णयाजयः स्यात् ; इत्यप्यविचारितरमणीयम् , यतः स प्रतिवादी सत्साधन- 30 वादिनः साधनाभासंवादिनो वा वचनाधिक्यदोषमुद्भावयेत् ? । तत्राद्यपक्षे वादिनः कथं साधुसाधनाज्ञानम् , तद्वचनेयत्ताज्ञानस्यैवाभावात् । द्वितीयपक्षे तु न प्रतिवादिनो दूषणज्ञानमवतिष्ठते साधनाभासस्यानुद्भावनात् । तद्वचनाधिक्यदोषस्य ज्ञानात् दूषणज्ञो१-०कार्थप्रतिप्रद० - मु । कार्थप्रतिज्ञाप्रद० - डे०।२ साधर्म्यवचनाद्वार्थस्य - डे०।३-०तदव० -डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org