________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० ३५. $१०१ "सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तः" [न्यायसू ५. २. २३ ] नाम निग्रहस्थानं भवति । यः प्रथमं कश्चित् सिद्धान्तमभ्युपगम्य कथामुपक्रमते । तत्र च सिषाधयिषितार्थसाधनाय परोपालम्भाय वा सिद्धान्तविरुद्धमभिधते
सोऽपसिद्धान्तेन निगृह्यते । एतदपि प्रतिवादिनः प्रतिपक्षसाधने सत्येव निग्रहस्थानं - 5 नान्यथेति २१ ।
. १०२ "हेत्वाभासाश्च यथोक्ताः" [ न्यायसू० ५. २. २४ ] असिद्धविरुद्धादयो निग्रहस्थानम् । अत्रापि विरुद्धहेतूद्भावनेन प्रतिपक्षसिद्धेनिग्रहाधिकरणत्वं युक्तम् , असिद्धायुद्भावने तु प्रतिवादिना प्रतिपक्षसाधने कृते तद्युक्तं नान्यथेति २२॥ ३४ ॥ १०३. तदेवमक्षपादोपदिष्टं पराजयाधिकरणं परीक्ष्य सौगतागमितं' तत् परीक्ष्यते
नोप्यसाधनाङ्गवचनादोषोद्भावने ॥ ३५ ॥ ६१०४. स्वपक्षस्यासिद्धिरेव पराजयो 'न' 'असाधनाङ्गवचनम्' 'अदोषोद्भावनम् च । यथाह धर्मकीर्तिः
"असाधनाङ्गवचनमदोषोदावनं व्योः।
निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते॥" -[वादग्यायः का० १] . 15 ६१०५. अत्र हि स्वपक्षं साधयन् असाधयन् वा वादिप्रतिवादिनोरन्यतरोऽसाध
नाङ्गवचनाददोषोद्भावनाद्वा परं निगृह्णाति १। प्रथमपक्षे स्वपक्षसिछवास्य पराजयादन्योद्भावनं व्यर्थम् । द्वितीयपक्षे असाधनाङ्गवचनाद्युद्भावनेपिं न कस्यचिजयः, पथसिद्धेरुभयोरभावात् ।
१०६. यच्चास्य व्याख्यानम्-साधनं सिद्धिस्तदङ्गं त्रिरूपं लिङ्गं तस्यावचनम्20 तूष्णीम्भावो यत्किश्चिद्भाषणं वा, साधनस्य वा त्रिरूपलिङ्गस्या समर्थनं
विपक्षे बाधकप्रमाणोपदर्शनरूपं तस्यावचनं वादिनो निग्रहस्थानमिति-तत् पश्चावयवप्रयोगवादिनोऽपि समानम् । शक्यं हि तेनाप्येवं वक्तुं सिद्धङ्गस्य पञ्चावयवप्रयोगस्यावचनात् सौगतस्य वादिनो निग्रहः। ननु चास्य तदवचनेऽपि न निग्रहः,
प्रतिज्ञानिगमनयोः पंक्षधर्मोपसंहारसामर्थ्येन गम्यमानत्वात् , गम्यमानयोश्च वचने 25 पुनरुक्तत्वानुषङ्गात् , तत्प्रयोगेऽपि हेतुप्रयोगमन्तरेण साध्यार्थाप्रसिद्धेः इत्यप्यसत्,
पक्षधर्मोपसंहारस्याप्येवमवचनानुषङ्गात् । अथ सामर्थ्याद्गम्यमानस्यापि यत् सत् तत् सर्व. क्षणिकं यथा घटः, संश्च शब्द इति पक्षधर्मोपसंहारस्य वचनं हेतोरपक्षधर्मत्वेना. १-० मितं परी० - ता० । २ नासाध० - ता-मू०। ३ इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाषा: मांसायां द्वितीयस्याध्यायस्य कियन्ति सूत्राणि ॥ श्रीवामातनयाय नमः ॥ शुभं भवतु लेखकपाठकाय 'सदा ॥छ।-सं-मू। ४-०पि कस्य-ता०। ५-०पि निग्रा-डे। ६.पक्षधर्मोपक्षधर्मोपसं०-डे पक्षधर्मापेक्षधर्मापसं-मु०। ७ हेतुना प्रयो०- ता०। ८..प्येवं वच० - डे। वचनहे. -डे। १०-०क्षधर्मत्वे त्वसि० - डे ।
.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org