________________
७४
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू. ३५. ऽसाविति चेत् ; साधनाभासाज्ञानाददूषणज्ञोऽपीति नैकान्ततो वादिनं जयेत् , तददोषोद्भावनलक्षणस्य पराजयस्यापि निवारयितुमशक्तेः । अथ वचनाधिक्यदोषोद्भावनादेव प्रतिवादिनो जयसिद्धौ साधनाभासोद्भावनमनर्थकम् । नन्वेवं साधनाभासानुद्भावना त्तस्य पराजयसिद्धौ वचनाधिक्योद्भावनं कथं जयाय प्रकल्पेत ? । अथ वचनाधिक्यं 5 साधनाभासं वोद्भावयतः प्रतिवादिनो जयः; कथमेवं साधर्म्यवचने वैधर्म्यवचनं
वैधर्म्यवचने वा साधर्म्यवचनं पराजयाय प्रभवेत् । कथं चैवं वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहवैययं न स्यात् , क्वचिदेकत्रापि पक्षे साधनसामर्थ्यज्ञानाज्ञानयोः सम्भवात् ? न खलु शब्दादौ नित्यत्वस्यानित्यत्वस्य वा परीक्षायामेकस्य साधनसामर्थ्य ज्ञानमन्यस्य
चाज्ञानं जयस्य पराजयस्य वा निबन्धनं न भवति । युगपत्साधनासामर्थ्य ज्ञाने च 10 वादिप्रतिवादिनोः कस्य जयः पराजयो वा स्यादविशेषात् । न कस्यचिदिति चेत् ; तर्हि
साधनवादिनो वचनाधिक्यकारिणः साधनसामर्थ्याज्ञानसिद्धेः प्रतिवादिनश्च वचनाधिक्यदोषोद्भावनात्तदोषमात्रज्ञानसिद्धेर्न कस्यचिजयः पराजयो वा स्यात् । नहि यो यद्दोषं वेत्ति स तद्गुणमपि, कुतश्चिन्मारणशक्ती वेदनेऽपि विषद्रव्यस्य कुष्ठापनयन
शक्तौ संवेदनानुदयात् । तन्न तत्सामर्थ्यज्ञानाज्ञाननिबन्धनौ जयपराजयो व्यवस्थाप15 यितुं शक्यौ, यथोक्तदोषानुषङ्गात् । स्वपक्षसिद्धयसिद्धिनिबन्धनौ तु तौ निरवद्यौ पक्ष
प्रतिपक्षपरिग्रहवैयर्थ्याभावात् । कस्यचित् कुतश्चित् स्वपक्षसिद्धौ सुनिश्चितायां परस्य तत्सिद्धयभावतः सकृञ्जयपराजयप्रसङ्गात् ।
६१०९. यच्चेदमदोषोद्भावनमित्यस्य व्याख्यानम्-प्रसज्यप्रतिषेधे दोषोद्भावनाभावमात्रम्-अदोषोद्भावनम् , पर्युदासे तु दोषाभासानामन्यदोषाणां चोद्भावनं प्रतिवादिनो निग्रह20 स्थानमिति-तत् वादिनाऽदोषवति साधने प्रयुक्ते सत्यनुमतमेव यदि वादी स्वपक्षं साध
येन्नान्यथा । वचनाधिक्यं तु दोषः प्रागेव प्रतिविहितः । यथैव हि पञ्चावयवप्रयोगे वचनाधिक्यं निग्रहस्थानं तथा व्यवयवप्रयोगे न्यूनतापि स्याद्विशेषाभावात् । प्रतिज्ञादीनि हि पश्चाप्यनुमानाङ्गम्-"प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः"
न्याय सू० १.१.३२] इत्यभिधानात् । तेषां मध्येऽन्यतमस्याप्यनभिधाने न्यूनताख्यो दोषो25 ऽनुषज्यत एव "हीनमन्यतमेनापि न्यूनम्" [न्यायसू० ५.२.१२] इति वचनात् । ततो जयेतरव्यवस्थायां नान्यनिमित्तमुक्तानिमित्तादित्यलं प्रसङ्गेन ॥ ३५॥
६११०. अयं च प्रागुक्तश्चतुरङ्गो वादः कदाचित्पत्रालम्बनमप्यपेक्षतेऽतस्तल्लक्षणमत्रावश्याभिधातव्यं यतो नाविज्ञातस्वरूपस्यास्यावलम्बनं जयाय प्रभवति न चाविज्ञातस्वरूपं परपत्रं भेत्तुं शक्यमित्यहि
१ नैकान्ततो जयेत् - डे० । २ -०भासं चोद्भा० - डे । ३ जयति कथम् - डे० । १-०स्य निब.-ता। ५-०मात्रे ज्ञा० -ता०।६ विषयद्र-ता०। ७- सिद्धो निश्चि०-डे०1८-०क्यं यथा नि०-डे। 8-०मानं प्र०-डे ० । १० ॥छ॥ श्रीः ॥ छ ॥मङ्गलम् ॥ महाश्रीः ॥ छ ॥ श्री ॥ - ता० । -मित्याहः। इत्याचार्यश्री ५ श्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तवृत्तेश्च द्वितीयस्याध्यायस्य प्रथमाहिक समाप्तम् ॥श्री॥ संवत् १७०७ वर्षे मार्गशीर्षमासे कृष्णतृतीयायां पुण्यतिथौ रविवासरे श्रीअणहिल्लपुरपत्तनमध्ये पुस्तकं लिखितमिदं ॥छ । शुभं भवतु ॥श्रीकल्याणमस्तु ॥ ९॥ श्री ॥९॥ छ ॥ छ ॥२॥-ड़े।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org