________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ०. १, सू० ३४. विधाद्वाक्यांत् पक्षसिद्धौ पराजयायोगात् । कथं चैवं प्रमाणसंप्लवोऽभ्युपगम्यते ? । अभ्युपगमें वाधिकन्निग्रहाय जायेत । प्रतिपत्तिदायसंवादसिद्धिप्रयोजनसद्भावान निग्रहः, इत्यन्यत्रापि समानम् , हेतुनोदाहरणेन चै(वै)केन प्रसाधितेऽप्यर्थे द्वितीयस्य हेतोरुदाहरणस्य वा
नानर्थक्यम्, तत्प्रयोजनसद्भावात् । न चैवमनवस्था, कस्यचित् क्वचिनिराकानन्तोपपत्तेः 5 प्रमाणान्तरवत् । कथं चास्य कृतकत्वादी स्वार्थिककप्रत्ययस्य वचनम् , यत्कृतकं तद
नित्यमिति व्याप्तौ यत्तद्वचनम् , वृत्तिपदप्रयोगादेव चार्थप्रतिपत्तौ वाक्यप्रयोगः अधिकत्वानिग्रहस्थानं न स्यात् । तथाविधस्याप्यस्य प्रतिपत्तिविशेषोपायत्वात्तति चेत् । कथमनेकस्य हेतोरुदाहरणस्य वा तदुपायभूतस्य वचनं निग्रहाधिकरणम् ? । निरर्थकस्य .तु
वचनं निरर्थकत्वादेव निग्रहस्थानं नाधिकत्वादिति १२ । 10 ६९३. शब्दार्थयोः पुनर्वचनं पुनरुक्तं नाम निग्रहस्थानं भवत्यन्यत्रानुवादात् ।
शब्दपुनरुक्तं नाम यत्र स एव शब्दः पुनरुच्चार्यते । यथा अनित्यः शब्दः अनित्यः शब्द इति । अर्थपुनरुक्तं तु यत्र सोऽर्थः प्रथममन्येन शब्देनोक्तः पुनः पर्यायान्तरेणोच्यते। यथा अनित्यः शब्दो विनाशी ध्वनिरिति । अनुवादे तु पौनरुक्त्यमदोषो यथा
"हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्" [ न्यायसू० १.१.३९ ] इति । 15 अत्रार्थपुनरुक्तमेवानुपपन्नं न शब्दपुनरुक्तम् , अर्थभेदेन शब्दसाम्येऽप्यस्यासम्भवात् यथा
"हसति हसति स्वामिन्युचैरुदत्यतिरोदिति,
कृतपरिकरं स्वेदोद्गारि प्रधावति धावति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति,
धनलवपरिक्रीतं यन्त्रं प्रनृत्यति नृत्यति ॥” -[वादन्यायः पृ० १११] 20 इत्यादि । ततः स्पष्टार्थवाचकैस्तैरेवान्यैर्वा शब्दैः सभ्याः प्रतिपादनीयाः । तदप्रतिपादक
शब्दानां तु सकृत् पुनः पुनर्वाभिधानं निरर्थकं न तु पुनरुक्तमिति । यदपि अर्थादापत्रस्य स्वशब्देन पुनर्वचनं पुनरुक्तमुक्तं यथा असत्सु मेघेषु वृष्टिर्न भवतीत्युक्ते अर्थादापद्यते सत्सु भवतीति तत् कण्ठेन कथ्यमानं पुनरुक्तं भवति, अर्थगत्यर्थे हि शब्दप्रयोगे
प्रतीतेऽर्थे किं तेनेति । एतदपि प्रतिपन्नार्थप्रतिपादकत्वेन वैयान्निग्रहस्थानं 25 नान्यथा। तथा चेदं निरर्थकान "विशिष्यतेति १३ ।।
६९४. पर्षदा विदितस्य वादिना त्रिरभिहितस्यापि यदप्रत्युच्चारणं तदननुभाषणं नाम निग्रहस्थानं भवति, अप्रत्युच्चारयत्(न्) किमाश्रयं दूषणमभिदधतीति(०दधीतेति)। अत्रापि किं सर्वस्य वादिनोक्तस्याननुभाषणम् उतै यनान्तरीयिका साध्यसिद्धिस्तस्येति ।
तत्राद्यः पक्षोऽयुक्तः, परोक्तमशेषमप्रत्युच्चारयतोऽपि दूषणवचनाव्याघातात् । यथा सर्वम30 नित्यं सत्त्वादित्युक्ते-सत्त्वादित्ययं हेतुविरुद्ध इति हेतुमेवोच्चार्य विरुद्धतोद्भाव्यते-क्षण
१- विधाद्वा वाक्या०-ता०।२ हेत्वन्तरयुक्तात् ।३-०पगम्यते वाधिकान्नि० - ३।४-०चनवृ० - डे। ५ कृतकानित्यमिति वृत्तिपदम् । ६-.क्तं यत्र. - डे०।७-०रुक्तम० डे । -- .स्य सम्भ. -डे । दोषोपेतम्-डे०।१०विशेष्ये. -डे०।११ उत यत्नान्तरीयिका.-ता। उत प्रयत्नानन्तरीयिका-डे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org