________________
निग्रहस्थानस्य निरूपणम् ।] प्रमाणमीमांसा। ' -: ६८९. यदि पुनः पर्दैनरर्थक्यमेव वाक्यनरर्थक्यं पदसमुदायात्मकत्वात् तस्य तर्हि वर्णनैरर्थक्यमेव पदनैरर्थक्यं स्यात् वर्णसमुदायात्मकत्वात् तस्य । वर्णानां सर्वत्र निरर्थकत्वात् पदस्यापि तत्प्रसङ्गश्चेत् । तर्हि पदस्यापि निरर्थकत्वात् तत्समुदायात्मनो वाक्यस्यापि नैरर्थक्यानुषङ्गः । पदस्यार्थवत्त्वेन(वत्त्वे च) पदार्थापेक्षया [वार्थापेक्षया] वर्णस्यापि तदस्तु प्रकृतिप्रत्ययादिवत् : न खलु प्रकृतिः केवला पदं प्रत्ययो वा। नाप्यनयोर- 5 नर्थकत्वम् । अभिव्यक्तार्थाभावादनर्थकत्वे; पदस्यापि तत् स्यात् । यथैव हि प्रकृत्यर्थः प्रत्ययेनाभिव्यज्यते प्रत्ययार्थश्च प्रकृत्या तयोः केवलयोरप्रयोगात् तथा देवदत्तस्तिष्ठतीत्यादिप्रयोगेस्याधन्तपदार्थस्य त्याद्यन्तपदार्थस्य चे स्त्याद्यन्तपदेनाभिव्यक्त केवलस्याप्रयोगः। पदान्तरापेक्षस्य पदस्य सार्थकत्वं प्रकृत्यपेक्षस्य प्रत्ययस्य तदपेक्षस्य च प्रकृत्यादिवर्णस्य समानमिति ९।
६९०. प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनक्रममुल्लङ्घयावयवविपर्यासेन प्रयुज्यमानमनुमानवाक्यमप्राप्तकालं नाम निग्रहस्थानं भवति; स्वप्रतिपत्तिवत् परप्रतिपत्तेर्जनने परार्थानुमाने क्रमस्याप्यङ्गत्वात् । एतदप्यपेशलम् , प्रेक्षावतां प्रतिपत्तॄणामवयवक्रमनियम विनाप्यर्थप्रतिपच्युपलम्भात् । ननु यथापशब्दाच्छताच्छब्दस्मरणं ततोऽर्थप्रत्यय इति शब्दादेवार्थप्रत्ययः परम्परया तथा प्रतिज्ञाद्यवयवव्युत्क्रमात तत्क्रमस्मरणं ततो वाक्या- 15 र्थप्रत्ययो न पुनस्तद्वयुत्क्रमात् ; इत्यप्यसारम् , एवंविधप्रतीत्यभावात् । यस्माद्धि शब्दादुचरितात् यत्रार्थे प्रतीतिः स एव तस्य वाचको नान्यः, अन्यथा शब्दात्तत्क्रमाच्चापशब्दे तव्यतिक्रमे च स्मरणं ततोऽर्थप्रतीतिरित्यपि वक्तुं शक्येत । एवं शब्दान्वाख्यानवैयर्थ्यमिति चेत्, नैवम् , वाँदिनोऽनिष्टमात्रापादनात् अपशब्देऽपि चान्वाख्यानस्योपलम्भात् । संस्कृताच्छब्दात्सत्यात् धर्मोऽन्यस्मादधर्म इति नियमे चान्यधर्मा- 20 धर्मोपायानुष्ठानवैयर्थ्य धर्माधर्मयोश्चाप्रतिनियमप्रसङ्गः, अधार्मिके च धार्मिके च तच्छ-. ब्दोपलम्भात् । भवतु वा तत्क्रमादर्थप्रतीतिस्तथाप्यर्थप्रत्ययः क्रमेण स्थितो येन वाक्येन व्युत्क्रम्यते तनिरर्थकं न त्वप्राप्तकालमिति १० ।
६९१. पञ्चावयवे वाक्ये प्रयोक्तव्ये तदन्यतमेनाप्यवयवेन हीनं न्यूनं नाम निग्रहस्थानं भवति, साधनाभावे साध्यसिद्धेरभागत् , प्रतिज्ञादीनां च पश्चानामपि साध- 25 नत्वात् इत्यप्यसमीचीनम् , पञ्चावयवप्रयोगमन्तरेणापि साध्यसिद्धरभिधानात् प्रतिज्ञाहेतुप्रयोगमन्तरेणैव तत्सिद्धेरभावात् । अतस्तद्धीनमेव न्यूनं निग्रहस्थानमिति ११ ।
६ ९२. एकेनैव हेतुनोदाहरणेन वा प्रतिपादितेऽर्थे हेत्वन्तरमुदाहरणान्तरं वा वदतोऽधिकं नाम निग्रहस्थानं भवति निष्प्रयोजनाभिधानात्। एतदप्ययुक्तम्, तथा
१ दश दाडिमानि.षडपूपा इत्यत्र तु पदानामेव नैरर्थक्यम् न वाक्यस्य क्रियाया अश्रावणस्वात (अश्रवणात्)।२-०क्षया तस्यापि - डे० । ३ अर्थवत्त्वम् । ४ प्रकृतिप्रत्यययोः। ५च स्तूपचन्त०-ता। ६ यथापि शब्दा० -डे०। ७क्रमवादिनः। सत्याधर्मो- डे० । अधार्मिके धार्मिक-डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org