________________
६८
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० ३४. निग्रहाय कल्पेत, असमर्थे वा । न तावत्समर्थे; स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोषाभावालोकवत् । असमर्थेऽपि प्रतिवादिनः पक्षसिद्धौ तेत् निग्रहाय स्यादसिद्धौ वा । प्रथमपक्षे तत्पक्षसिद्धेरेवास्य निग्रहो न त्वतो निग्रहस्थानात् । द्वितीयपक्षेऽप्यतो न निग्रहः, पक्षसिद्धरुभयोरप्यभावादिति ६।। 5 ८६. अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं नाम निग्रहस्थानं भवति ।
यथा अनित्यः शब्दः कचटतपानां गजडदबत्वाद् घझढधभवदिति । एतदपि सर्वथार्थशून्यत्वान्निग्रहाय कल्पेत, साध्यानुपयोगाद्वा ? । तत्राद्यविकल्पोऽयुक्तः, सर्वथार्थशून्यशब्दस्यैवासम्भवात् , वर्णक्रमनिर्देशस्याप्यनुकार्येणार्थनार्थवत्त्वोपपत्तेः । द्वितीयविकल्पे
तु सर्वमेव निग्रहस्थानं निरर्थकं स्यात् साध्यसिद्धावनुपयोगित्वाविशेषात् । किञ्चि10 द्विशेषमात्रेण भेदे वा खाद्कृत-हस्तास्फालन-कक्षापिट्टितादेरपि साध्यानुपयोगिनो निग्रहस्थानान्तरत्वानुषङ्ग इति ७।
६.८७. यत् साधनवाक्यं दृषणवाक्यं वा त्रिरभिहितमपि परिषत्प्रतिवादिभ्यां बोदं न शक्यते तत् अविज्ञातार्थ नाम निग्रहस्थानं भवति । अत्रेदमुच्यते-वादिना त्रिरमि
हितमपि वाक्यं परिषत्प्रतिवादिभ्यां मन्दमतित्वादविज्ञातम् , गूढाभिधानतो वा, द्रुतोचा15 राद्वा। प्रथमपक्षे सत्साधनवादिनोऽप्येतन्निग्रहस्थानं स्यात् , तत्राप्यनयोर्मन्दमतित्वेना
विज्ञातत्वसम्भवात् । द्वितीयपक्षे तु पत्रवाक्यप्रयोगेऽपि तत्प्रसङ्गः, गूढाभिधानतया परिषत्प्रतिवादिनोर्महाप्राज्ञयोरप्यविज्ञातत्वोपलम्भात् । अथाभ्यामविज्ञातमप्येतत् वादी
व्याचष्टे गूढोपन्यासमप्यात्मनः स एव व्याचष्टाम् , अव्याख्याने तु. जयाभाव एवास्य, - न पुनर्निग्रहः, परस्य पक्षसिद्धेरभावात् । द्रुतोचारेप्यनयोः कथश्चित् ज्ञानं सम्भवत्येव, 20 सिद्धान्तद्वयवेदित्वात् । साध्यानुपयोगिनि तु वादिनः प्रलापमात्रे तयोरविज्ञानं नाविज्ञातार्थ वर्णक्रमनिर्देशवत् । ततो नेदमविज्ञातार्थ निरर्थकाद्भिद्यत इति ८।
६८८. पूर्वापरासङ्गतपदसमूहप्रयोगादप्रतिष्ठितवाक्यार्थमपार्थकं नाम निग्रहस्थानं भवति । यथा दश दाडिमानि षडपूपा इत्यादि । एतदपि निरर्थकान भिद्यते । यथैव
हि गजडदबादौ वर्णानां नैरर्थक्यं तथात्र पदानामिति । यदि पुनः पदनैरर्थक्यं वर्ण25 नैरर्थक्यादन्यत्वान्निग्रहस्थानान्तरं तर्हि वाक्यनैरर्थक्यस्याप्याभ्यामन्यत्वान्निग्रहस्थानान्तरत्वं स्यात् पदवत्पौर्वापर्येणाऽप्रयुज्यमानानां वाक्यानामप्यनेकधोपलभ्यात्
"शङ्खः कदल्यां कदली च भयों तस्यां च भयो सुमहछिमानम् ।
तच्छडभेरीकदलीविमानमुन्मत्तगङ्गप्रतिमं बभूव ॥" इत्यादिवत् ।
१ पक्षान्तरम् (?) अर्थान्तरम् । २-०सिद्धिरेव - डे० । ३ अर्थान्तरात् । ४ भेदेन खाद - डे. भेदे वा षट्कृत - मु-पा०। ५ गूढानां शब्दानामभिधानम् । ६ सत्साधनेपि । ७ अविज्ञातत्वप्रसङ्गः ।
प्रहेलिकादिकम् । पत्रवाक्यम् । १० साध्यवाक्यम् । ११ सिद्धान्तवेदि० - डे० । ११ अथ निग्रहवादी एवं ब्रूयात् वादिनः प्रलापमात्रम् अविज्ञातस्य लक्षणम् इत्याशङ्कायामाह (?)। १३ कर्तरि षष्ठी न (१)। २५-०ज्ञातं ना.- ता०। १५ साध्यानुपयोगित्वात् । १६ वर्णपदनैरर्थक्याभ्याम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org