SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ૮૨ १० १५ २० काव्यानुशासनम् रसादिश्च ॥ २५ ॥ रसभावतदाभासभावशान्तिभावोदय भावस्थितिभावसन्धिभावशबलत्वान्यर्थशक्तिमूलानि व्यङ्गयानि । चकारः पदवाक्यप्रबन्धानुकर्षणार्थः । पृथग्योगो रसादयो व्यङ्गया एव भवन्ति न तु कदाचि - द्वाच्यतामपि सहन्त इति रसादीनां प्राधान्यख्यापनार्थः । वस्त्वलङ्कारौ हि वाच्यावपि भवत इति । तत्रार्थशक्तिमूलो व्यङ्गयो रसः पदे यथाउत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । [ अ. १. सू. २५ हुमि अवहत्थिअरेहो णिरंकुसो अह विवेअरहिओ वि । सिविणे वि तुम समए पत्तिअभक्तिं न पुप्फुसिमि ॥ १५२ ॥ [वि. ली. इत्यादयो यौवनोक्तयस्तं तं निजस्वभावं व्यजन्ति । Jain Education International 1 रसभावेति । यद्यपि रसेनैव सर्वे काव्यं जीवति, तथापि तस्य रसस्य एकघनचमत्कारात्मनोऽपि कुतश्विदंशात्प्रयोजकीभूतादधिकोऽसौ चमत्कारो भवति । तत्र यदा कश्चिदुद्रितावस्थां प्रतिपन्नो व्यभिचारी वक्ष्यमाणोदयादिधर्मा चमत्कारातिशये प्रयोजको भवति तदा भावध्वनिः । यदा तु विभावाभासाद् रत्याभासोदयस्तदा विभावानुभावाभासाच्चर्वणाभास इति रसाभासः । एवं भावाभासोऽपि । एवं रसध्वनेरेवामी भावध्वनिप्रभृतयो निष्यन्दाः । आस्वादे प्रधानं प्रयोजकमंशं विभज्य पृथग् व्यवस्थाप्यते । यथा - गन्धयुक्तिज्ञैरेकसंमूर्च्छितामोदोपभोगेऽपि सुपरिशुद्धमास्यादिप्रयुक्तमिदं सौरभमिति । रसध्वनिस्तु स एव, यत्र मुख्यतया विभावानुभावव्यभिचारिसंयोजनोचितस्थायिप्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यैशचर्वणाप्रयुक्त एवास्वादप्रकर्ष इति । उदाहरणानि चैतलक्षणप्रस्तावे दर्शयिष्यन्ते । उत्कम्पिनीति । अत्र हि ते इति पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् । तथा हि-वासवदत्ता दाहाकर्णनप्रबुद्धशोकनिर्भरस्य वत्सराजस्येदं 1. A. B. omit तस्य For Private & Personal Use Only ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy