________________
अ. १. सू. २५] काव्यानुशासनम् तीक्ष्णेन दारुणतया सहसैव दग्धा
धूमान्धितेन दहनेन न वीक्षितासि ॥ ८१॥ .
3
अत्र ते-इति पदेन स्मारितानामनुभवैकगोचराणां सातिशयविभ्रमाणां शोकव्यञ्जकत्वम् । परिदेवितवचनम् । तत्र च शोको नामेष्टजनविनाशप्रभव इति तस्य जनस्य ये भ्रक्षेपकटाक्षप्रभृतयः पूर्व रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षत्वभावप्राणं करुणमुद्दीपयन्तीति स्थिते, ते लोचने-इति तच्छन्दस्तल्लोचनगतस्वसंवेद्याव्यपदेश्यानन्तगुणगणस्मरणाकारद्योतको रसस्यासाधारणनिमित्ततां प्राप्तः । तेन यत्केनचिच्चोदितं परिहृतं च १० तन्मिथ्यैव । तथा हि चोद्यम्-प्रक्रान्तपरामर्शकस्य तच्छब्दस्य कथमियति व्यापारः । उत्तरं च-रसाविष्टोऽत्र परामृष्ट इति । तदुभयमनुत्थानोपहतम् । यत्र ह्यनुपदेक्ष्यमाणधर्मान्तरसाहित्ययोग्यधर्मयोगित्वं वस्तुनो यच्छब्देनामिधाय तबुद्धिस्थधर्मान्तरसाहित्यं तच्छब्देन निर्वाह्यते । तत्र पूर्वप्रकान्तपरामर्शकत्वं तच्छब्दस्य । यत्र तु निमित्तोपनतस्मरणविशेषाकारसूचकत्वं स घट इत्यादौ तत्र का परामर्शकथेति । उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणं मया अनिर्वाहितप्रतीकारमिति शोकावेगस्य विभावः । ते-इति सातिशयविभ्रमैकायतनरूपेऽपि लोचने विधुरे कांदिशीकतया निर्लक्ष्ये क्षिपन्ती कस्त्राता वासावार्यपुत्र इति तयोलोंचनयोस्तादृशी चावस्थेति सुतरां शोकोद्दीपनम् ।
तीक्ष्णेनेति । तस्यायं स्वभाव एव किं कुरुतां तथापि च धूमेनान्धी- २० कृतो द्रष्टुमसमर्थ इति, न तु सविवेकस्येदृशानुचितकारित्वं संभाव्यते-इति स्मर्यमाणं तदीय सौन्दर्यमिदानीं सातिशयशोकावेगविभावतां प्राप्तमिति ते शब्दे सति सर्वोऽयमों नियंढः । यथा वा
1. P परिभ्रमाणां 2. C. कटाक्षादयः 3. N. भावप्रमाणं 4. A. °धर्मायोगित्वं c• °माणधर्मयोग्यधर्मयोगित्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org