________________
.
सामना
अ. १. सू. २४] काव्यानुशासनम्
अत्र निदर्शनेन हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपोऽसाधारणतद्विशेषप्रकाशनपर आक्षेपो व्यज्यते ।
प्रबन्धेऽर्थशक्तिमूलो व्यङ्यो यथा गृध्रगोमायुसंवादे । तथा च अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसङ्कुले । न चेह जीवितः कश्चित्कालधर्ममुपागतः ॥ ७८ ॥
[म. भा. शा. प. अ. १५२. श्लो. ११(३) १२(a)] इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् ।
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत साम्प्रतम् । बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ॥ ७९ ॥ अमुं कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात्कथं बालास्त्यक्ष्यध्वमविशङ्किताः॥ ८० ॥
[म. भा. शा. प. अ. १५२. श्लो. १९, ६५.] इति निशि विज़म्भमाणस्य गोमायोजनव्यावर्तननिष्ठं चेति प्रबन्धप्रतिपाद्येनार्थेन गृध्रगोमाय्वोर्भक्षणाभिप्रायो व्यज्यते । एवं मधुमथनविजये पाञ्चजन्योक्तिषु विषमबाणलीलायां कामदेव- १५ स्य सहचरसमागमेऽर्थव्यञ्जकत्वमुदाहार्यम् । एवं च वस्तुनोऽलंकारव्यञ्जकत्वेऽलंकारस्य च वस्त्वलंकारव्यञ्जकत्वे भेदत्रयमुत्प्रेक्ष्यम् । पाश्चजन्योक्तिधिति ।
" लीलादाढग्गुबूढसयलमहिमण्डलस्स चिअ अन्न । कीस मुणालाहरण पि तुज्झ गइआइ अंगम्मि ॥ १५१ ॥
[म. वि इत्यादयः पाश्चजन्योक्तयो रुक्मिणीविप्रलब्धवासुदेवाशयप्रतिभेदेनामिप्रायममिन्यजन्ति ।
सहचरेति । कामदेवस्य सहचरा मधुयौवनमलयानिलादयस्तेषां समागमे । तदुक्किष्वित्यर्थः । यथा---
1. I. पाचयहो 2 I. L. omit from अलंकारस्य to व्यजकत्वे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org