SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७८ १० १५ २० काव्यानुशासनम् [ अ. १. सू. २४ 1 अत्र वसिष्ठः पुत्रक्षयोपतप्तोऽग्निं प्रविष्टोऽपि न तेन दग्ध इत्ययं वाक्यार्थी वस्तुस्वभावः शोकस्य बाह्यवहेराधिक्यमिति व्यतिरेकालङ्कारं ध्वनति । तन जानीमः किमेतद्वस्त्विति ससंदेहो ध्वन्यते । पूर्वमनङ्गीकृतप्रणयामनुतप्त प्रणयिविरहोत्कण्ठितां वल्लभागमनप्रतीक्षापरत्वेन कृतप्रसाधनादिविधेयतया वासकसज्जीभूतां पूर्णचन्द्रोदयावसरे दूतीमुखेनानीतः प्रियतमस्त्वदीयकुचकलशन्यस्तकालागुरुपत्रभङ्गरचना मन्मथोद्दीपनकारिणीति चाटुकं कुर्वाणश्चन्द्रवर्तिनी चेयं कुवलयदलश्यामला कान्तिरेवमेव करोतीति निदर्शनाध्वनिरपि । त्वदीयकुचकलशशोभा मृगाङ्गशोभा च सह मदनमुद्दीपयते इति सहोतिध्वनिरपि त्वत्कुचसदृशश्चन्द्रश्चन्द्रसमस्त्वत्कुचाभोगः इति अर्थप्रतीतेरुपमाध्वनिरपि । एवमन्येऽप्यत्र प्रभेदाः शक्योत्प्रेक्षाः । महाकविवाचोऽस्याः कामधेनुत्वात् । यतः -- ( 23 ) हेलापि कस्यचिदचिन्त्यफलप्रसूत्यै कस्यापि नालमणवेऽपि फलाय यत्नः । दिग्दन्ति रोमचलनं धरणीं धुनोति खात्संपतनपि लतां चलयेन भृङ्गः ॥ [ व्यतिरेकध्वनिर्यथा Jain Education International जाएज वणुसे खुज्जोचिअ पायवो सडिअत्तो । मा माणुसम्मि लोए चा एकरसो दरिदो अ ॥ १४९ ॥ [ स. श. २३० गा. स. ३, ३० ] जायेय वनोद्देशे एव वनस्यैकान्ते गहने यत्र स्फुटं बहुतरवृक्षसंपत्त्या 1. I विशिष्ट: L, P. वशिष्ट: From the context of the verse it seems that the correct reading is afas: 2. I. drops ofa. 3. A drops तत्र जानीमः 4. A drops तद्वस्त्विति संसदे 5. A. drops कृत ] For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy