SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ [अ. १. सू. २४ अत्र धीराणामिति पदार्थो वस्तुमात्ररूपः कुचयोः कुंभस्थलस्य चोपमालङ्कारं ध्वनति । ईसाकलुसस्स वि तुह मुहस्स नणु एस पुण्णिमायदो । अज्ज सरिसत्तणं पाविऊण अङ्गे चिअ न माइ ॥ १४५ ॥ ईच्याकलुषितस्यापि ईषदरुणच्छायाकस्य । यदि तु प्रसन्नस्य मुखस्य सादृश्यमुद्हेत्सर्वदा तत्किं कुर्यात् । त्वन्मुखं तु चन्द्रीभवतीति मनोरथानामप्यपथमिदमित्यपिशब्दस्याभिप्रायः । अङ्गे स्वदेहे न माति दश दिशः पूरयति . यतोऽद्येयता कालेन एक दिवसमात्रमित्यर्थः, अत्र पूर्णचन्द्रेण दिशां पूरणं स्वरससिद्धमेवमुत्प्रेक्ष्यते । यदि च ननु शब्देन वितर्कमुत्प्रेक्षारूपमाचक्षाणेनासंबद्धतात्रपराकृतेति संभाव्यते तदेदमत्रोदाहरणं यथा त्रासाकुलः परिपतन्परितो निकेतान् पुंभिर्न कैश्विदपि धन्विमिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनामिराकर्णपूर्णनयनेषु हतेक्षणश्री: ॥ १४६ ॥ . [ शि० व. स. प. श्लो. २६ ] परितः सर्वतो निकेतान् । परिपतन्नाक्रामन्न कैश्चिदपि चापपाणिभिरसौ मृगोऽनुबद्भस्तथापि न क्वचित्तस्थौ तथा त्रासचापलयोगात् स्वाभाविकादेव तत्र चोत्प्रेक्षा ध्वन्यते । अङ्गनाभिराकर्णपूर्णर्नेत्रशरैर्हता ईक्षणश्रीः सर्वस्वभूता अस्य यतः अतो न तस्थौ । नन्वेतदप्यसंबद्धमस्तु । न । शब्दार्थव्यवहारे हि प्रसिद्धिरेव प्रमाणम् । दीपकध्वनिर्यथा- .. मा भवन्तमनल: पवनो वा वारणो मदकल: परशुर्वा । वज्रमिन्द्रकरविप्रसृतं वा स्वस्ति तेऽस्तु लतया सह वृक्षः ॥ १४७ ॥ 1. I. च चोपमा 2. A. B. इंदो C पुणिमायन्दो 3. C अङ्गि 4. A. B. add at 5. C. drops 57 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy