________________
७५
अ. १. सू. २४ ] काव्यानुशासनम्
वस्तुनोऽलङ्कारव्यञ्जकत्वं पदे यथाधीराण रमइ घुसिणा रुणम्मि न तहापि या थणुच्छंगे । दिट्ठी रिउगयकुंभत्थलम्मि जह बहलसिंदूरे ॥ ७२ ॥
वस्तुनोऽलकारव्यञ्जकत्वमिति । वस्तुना उपमादिरलङ्कारो व्यज्यत ५ इत्यर्थः । तत्रोपमाध्वनिः ‘धीराण'-इत्यादिना दर्शितः । अर्थान्तरन्यासध्वनिः पदे यथा
" हिअयट्रियम, खुअ अणरुट्रमुहं पि में पसायन्त । अवरदस्स वि ण हु दे बहु जाणय रूसिउं सकम् ॥ १४३ ॥
] १. हृदये स्थितो न तु बहिः प्रकटितो मन्युर्यया । अत एवाप्रदर्शितरोषमुखीमपि मां प्रसादयन् हे बहुज्ञ अपराद्धस्यापि तव खलु न रोषकरणं शक्यम् । अत्र बहुल्लेत्यामन्त्रणाथों विशेषे पर्यवसितः। अनन्तरं तु तदर्थपर्यालोचनबलाद्यत्सामान्यरूपं समर्थकं प्रतीयते तदेव चमत्कारकारि । तथा हि । खण्डिता सती वैदग्भ्यानुनीता तं प्रत्यसूयां दर्शयन्ती इत्थमाह । यः कश्चिदुहुझो धूर्तः १५ स एवं सापराधोऽपि स्वापराधावकाशमवच्छादयतीति मा त्वमात्मनि बहुमानं मिथ्याग्रहीरिति । उत्प्रेक्षाध्वनिर्यथा
चन्दनासक्तभुजगनिःश्वासानिलमूर्छितः । मूर्छयत्येष पथिकान्मधो मलयमारुतः ॥ १४४ ॥
अत्र हि मधौ मलयमारुतस्य पथिका कारणत्वं मन्मथोन्माथदायित्वेनैव । तत्तु चन्दनासक्तभुजगनिःश्वासानिलमूर्छितत्वेनोत्प्रेक्ष्यत इत्युत्प्रेक्षा साक्षादनुकापि वाक्यार्थसामा•दवसीयते । न चैवविधे विषये इवादिशब्दप्रयोगमन्तरेणासंबद्धतैवेति शक्य वक्तुम्, गमकत्वात् । अन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् । यथा
1. N. प्रत्यक्षां 2. A. B. वक्तु शक्य. 3. A. drops oqefanie
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org