________________
७४
१०
१५
२०
काव्यानुशासनम्
कविनिबद्धवक्तृप्रौढोक्तिरिति किं प्रपञ्चेन । तत्र वस्तुनो वस्तुव्यञ्जकत्वं पदे यथा
तं ताण सिरिसहोअररयणाहरणम्मि हिअयमिकरसं । बिंबाहरे पिभाणं निवेसियं कुसुमबाणेण ॥ ७० ॥ [ विषमबाणलीला ]
अत्र कुसुमबाणेनेति पदं कामदेवस्य मृदूपायसौन्दर्यं प्रकाशयति ।
वाक्ये यथा
तापी नेयं नियतमथवा तानि नैतानि नृनं तीराण्यस्याः सविधविचलद्वीचिवाचालितानि । अन्यो वाऽहं किमथ न हि तद्वारि वेलद्वलाकं
यत्तत्पल्लीपतिदुहितरि स्नातुमभ्यागतायाम् ॥ ७१ ॥
[
]
अत्र वाक्यार्थेन वस्तुमात्ररूपेणाभिलषणीयजनकृतमेव भावानां हृद्यत्वं न स्वत इत्येतद्वस्तु व्यज्यते ।
[ अ. १. सू. २४
किं प्रपश्चेनेति । एवं हि भेदपरिकल्पने विष्णव्यामोह एव संपद्यत इत्यर्थः । तँ ताणेति । तेषामसुराणां पातालवासिनां यैः पुनः पुनरिन्द्रवि
2
मर्दनादि किं किं न कृतम् । तद्धृदयमिति यत्तेभ्यस्तेभ्योऽतिदुष्करेभ्यो ऽप्यकम्पनीयव्यवसायम् । तच्च श्रीसहोदराणामत एवानिर्वाच्योत्कर्षाणामित्यर्थः । तेषां रत्नानामासमन्ताद्धरणे एकरसं तत्परं तत्कुसुमबाणेन सुकुमारतरोपकरणसंभारेणापि प्रियाणां बिम्बाधरे निवेशितम् । तदवलोकनपरिचुम्बनदशनमात्रकृतकृत्यताभिमानयोगि तेन कामदेवेन कृतं तेषां हृदयं यदत्यन्तविजिगीषाज्वलनजाज्वल्यमानमभूदिति यावत् ।
1. B. तं जणेति
2. C. drops one f 3. B. N. दर्शन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org