________________
अ. १. सू. २४] काव्यानुशासनम् मात्रनिष्पन्नशरीरः, कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो वेति भेदकथनं न न्याय्यं । प्रौढोक्तिनिर्मितत्वमात्रेणैव साध्यसिद्धेः । प्रौढोक्तिमन्तरेण स्वतः संभविनोऽप्यकिश्चित्करत्वात् । कविप्रौढोक्तिरेव च
५
उक्ता। अतोऽनर्पितेष्वपि शरेषु यद्येवं मन्मथः प्रतपति तदर्पितेषु कियद्विजम्भिध्यत इति मन्मथोन्माथकस्यारम्भं क्रमेण गादगाढीभविष्यन्तं व्यनक्ति । कविनिबद्धवक्तृप्रौढोक्तिमात्र [ निष्पन्न ] शरीरो यथा
शिखरिणि व नु नाम किच्चिर किमभिधानमसावकरोत्तपः । तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥ १४२ ॥
न हि निर्विघ्नोत्तमसिद्धयोऽपि श्रीपर्वतप्रभृतय इमां सिद्धिं विदध्युः । दिव्यकल्पसहस्रादिश्चात्र परिमितः कालः । न चेवंविधोत्तमफलत्वेन चान्द्रायणप्रभृत्यपि तपः श्रुतम् । तवेति भिन्नपदम् । समासेन विगलिततया च सा न . प्रतीयते । तव दशतीत्यमिप्रायेण । तेन यदाहुः वृत्तानुरोधात् त्वदधरपाटल- १५ मिति न कृतमिति तदसदेव । दशतीत्यास्वादयति । अविच्छिन्नप्रबन्धतया न त्वौदरिकवत् परिभुते, अपि तु रसज्ञोऽत्रेति तत्प्राप्तिवदेव । रसज्ञताप्यस्य तपःप्रभावादेवेति । शुकशावक इति । तारुण्याद्युचितकाललाभोऽपि तपस एवेति । अनुरागिणश्च प्रच्छन्नस्वाभिप्रायख्यापनवैदग्ध्यचाटुविरचनात्मकभावोन्मीलनं व्यङ्गयम्। ___ अत्र चोदाहरणत्रयेऽपि प्रौढोक्तिरेव वस्तुव्यञ्जकत्वेन स्वदते । स्वभावोऽपि हि वर्ण्यमानः कविप्रौढयैव स्वदते। एतच्च जात्यलङ्कारे विवेचयिष्यते । काव्यस्य च कविरेव कर्ता वक्ता च। तत्र कविनैव निबद्ध इति कवेरेव तथाविधा अर्था उल्लिखिताः इति स्वतःसंभवित्वम् , कविनिबद्धवक्तृप्रौढोक्तिमात्र [निष्पन्न ] शरीरत्वं चार्थस्य न वाच्चमित्यर्थः । __ 1. B. drops from प्रति to प्रौढोक्तिमात्र
2. N. omits यदाहुः 3. N. प्रतिबन्धतया
२० :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org