SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव ॥ ६८ ॥ [ ] अत्र प्रकरणात्ततीयत्रिकनिर्देशाच्च रामे प्रतिपन्ने रामपदमनुपयुज्यमानं कठोरहृदय इत्यनेन दर्शितावकाशं पितृमरण सीतावियोगाद्यनेकदुःखभाजनत्वं लक्षयदसाधारणानि निर्वेदग्लानिमोहादीनि व्यनक्ति । वाक्ये यथा अ. १. सू. २३ ] सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुं ॥ ६९ ॥ [ ]' 1 हृदये निधायैव स्वात्मवृत्तान्तं तावदाह - कामं सन्त्विति । दृढमिति सातिशयम् । कठोरहृदय इति । रामशब्दार्थव्यङ्गयविशेषावकाशदानाय कठोरहृदयपदम् । यथा— तद्नेहमित्युक्तेऽपि नतमित्तीति । अन्यथा रामपदं दशरथकुलोद्भवकौशल्यास्नेहपात्रत्वबाल्यचरितजानकीलाभादि धर्मान्तरपरिणतमर्थ कथं नाम ध्वनेत् । अस्मीति । स एवाहं भवामीत्यर्थः । भविष्यतीति क्रियासामान्यम् । तेन किं करिष्यतीत्यर्थः । अथ च भवनमेवास्या असंभाव्यमिति उक्तप्रकारेण हृदयनिहितां प्रियाँ सजलजलधरादीनामुद्दीपनविभावानां साधारणत्वावधारणादिना स्मरणेन वैदेहीति शब्देन कथं भविष्यतीति विकल्पपरम्परया च प्रत्यक्षी भावितां हृदयस्फुटनोन्मुखीं ससंभ्रमाह — हहाहेति । देवीति युक्तं तव धैर्यमित्यर्थः । सुवर्णपुष्पामिति । सुवर्ण न तु ताम्रादि पुष्पाणि प्रतिदिनः प्रायाणि न तु दीनारादिवत् सकृद् प्रायाणि । पृथिवीं न तु नगरादिमात्रं, चिन्वन्ति उचिन्वन्ति, प्रत्यहं गृहीतसारां कुर्वते । पुरुषा इति । अन्ये त्वकार्यकराः । श्रय इति न तु चत्वारः । एवं शूरः पराक्रमेण दुर्घटकार्यकारी । कृता परं धाराधिरोहं नीता विद्या तत्त्वावबोधहेतुर्येन । सेवक इति सेवाज्ञ इति वा । वक्तव्ये ज्ञानस्यालौकिकत्वमनौचित्याद्यगणनादि च ध्वनितुं यत्यादि कृतम् । शूरकृतविद्यवत्सेवाज्ञस्य निर्गुणस्यापि लाभप्राप्तिरिति त्रयश्चकाराः स्वतः संभ २५ 3 1. A. B. न ध्वनेत् 2. A. drops प्रियां सजलजलधरादीना 3. A. B. संभवतीति. C. संभवीति Jain Education International ७१. For Private & Personal Use Only १० १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy