________________
७०
१०
२०
काव्यानुशासनम् [म. १. सू. २३
अत्र निशायां जागरितव्यमन्यत्र रात्रिवदासितव्यमिति न कश्चिदुपदेश्यं प्रत्युपदेशः सिद्ध्यतीति बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तर तालक्षणेन निमित्तेन तत्त्वदृष्टावधानं मिथ्यादृष्टौ तु पराङ्मुखत्वं ध्वनतीति ।
लक्षकशब्दशक्तिव्यङ्गचं वस्तु पदे यथा
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
या निशा व्यामोहजननी, तत्त्वदृष्टिः तस्यां संयमी जागतिं कथं प्राप्येतेति । न तु विषयवर्जनमात्रादेव संयमीति यावत् । यदि वा सर्वभूतनिशायां मोहिन्यां मिथ्यादृष्टौ जागतिं कथमियं हेयेति । यस्यां तु मिथ्यादृष्टौ सर्वभूतानि जाग्रति, अतिशयेन सुप्रबुद्धरूपाणि साप्तस्य रात्रिरप्रतिबोधविषयः । तस्यां हि चेष्टायां नासौ प्रबुद्धः । एवमेव च लोकोत्तराचारव्यवस्थितः पश्यति च मन्यते च तस्यैवान्तर्बहिष्करणवृत्तिवरितार्था । अन्यस्तु न पश्यति न मन्यत इति तत्त्वदृष्टिपरेण भाव्यमिति तात्पर्यम् ।
स्निग्धेति । निग्धया जलसंबन्धसरसया श्यामलया द्रविडव नितोचि - तासितवर्णया कान्त्या चाकचिक्येन लिप्तमाच्छुरितं वियन्नभो यैः । वेल्लन्त्यो जृम्भमाणास्तथा चलन्त्यः परभागवशात् प्रहर्षवशाच बलाकाः सितपक्षिविशेषा येषु सत्सु त एवंविधा मेघाः । एवं नभस्ताबद्दुरालोकं वर्तते । दिशोऽपि दुःसहाः । यतः सूक्ष्मजलोद्वारिणो वाता इति मन्दमन्दत्व मेषामनियतदिगागमनं
2
बहुवचनेन सूचितम् । तर्हि गुहासु क्वचित् प्रविश्यास्यतामत आह- पयोदानां ये सुहृदस्तेषु च सत्सु शोभनहृदया मयूरास्तेषामानन्देन हर्षेण कलाः षड्जसंवादिन्यो मधुराः केकाः शब्दविशेषाः, ताव सर्वे पयोदवृत्तान्तं स्मारयन्ति स्वयं च दुःसहा इति भावः । एवमुद्दीपनविभावोद्बोधितविप्रलम्भः परस्पराधिष्ठानत्वाद्रतेः विभावानां च साधारण्यमभिमन्यमान इस एवं प्रमृति प्रियतमां
1. N. प्राप्येति
2. A. B. C. • तामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org