SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. २३ ] काव्यानुशासनम् ____ अत्र विरोधालङ्कारो व्यङ्ग्यः । यथा वा खं येऽभ्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनः . ये पुष्णन्ति सरोरुहश्रियमधिक्षिप्त्वाब्जभासश्च ये। ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरांस्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः ॥६५॥ अत्र व्यतिरेकः । एवमलङ्कारान्तरेऽप्युदाहार्यम् । गौणशब्दशक्तिव्यङ्गयं वस्तु पदे यथा रविसंक्रान्तसौभाग्यस्तुषाराविलमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।। ६६ ॥ [रा. अ. का. स. १६. श्लो. १३ ] अत्रोपसंहृतदृष्टिवृत्तिरन्धशब्दो बाधितमुख्यार्थः पदार्थप्रकाशनाशक्तत्वं नष्टदृष्टिगतं निमित्तीकृत्यादर्शे वर्तमानोऽसाधारणविच्छायित्वानुपयोगित्वादिधर्मजातमसंख्यं प्रयोजनं व्यनक्ति । वाक्ये यथा या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६७ ॥ [म. भा. भीष्मपर्व. गी. अ. २. श्लो. ६९] नखैः करजैः, न गगने च । क्षितिमृतो राजानोऽपि उभये रश्मि- .. चरणरूपाः । एवमिति । यथा सरसं मउअसहावं विमलगुणं मित्तसंगमोल्लसिअम् । कमल गट्रच्छायं कुणन्त दोसायर नमो दे ॥ १३९ ॥ एतत्केनचिञ्चन्द्रमेवोद्दिश्योच्यते । कमलप्रख्यस्य महापुरुषस्य श्रिय नाशित- २५ पन्तं कञ्चन श्रीजुषं प्रति चाप्रस्तुतप्रशंसा व्यायेति । नि:श्वासान्ध इति । हेमन्तवर्णने पञ्चवटयां रामस्योक्तिरियम् । या निशेति । सर्वेषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां 1. P. L. रात्रिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy