SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ १५ २५ [ अ. १. सू. २३ रुधिरविसरप्रसाधितकरवालकराल रुचिरभुजपरिघः ! झटिति भ्रकुटिविटङ्कितललाटपट्टो विभासि नृप भीमः ॥ ६१ ॥ [ J काव्यानुशासनम् अत्र भीषणीयस्य भीमसेन उपमानं । : वाक्ये यथा उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तस्याः कं न चक्रेऽभिलाषिणम् ।। ६२ ॥ [ वाक्यस्यासंबद्धार्थत्वं मां प्रसासीदित्यप्राकरणिकप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालङ्कारो व्यङ्गयः । यथा वा अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा । तारकातरला श्यामा सानन्दं न करोति कम् ॥ ६३ ॥ [ ] 1 अत्र शब्दशक्त्या रात्रियोषितोरुपमा व्यङ्गया । यद्यपि समुदीपितेति सानन्दमिति चार्थोऽपि व्यञ्जकस्तथापि न शब्दशक्ति विनार्थशक्तिरुन्मीलतीति शब्दशक्तिरेव व्यञ्जिका । यथा वा 2 3 " मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यः धवलद्विजशुचिवदनामदिरामोद श्वसनाश्च प्रमदाः " ॥ ६४ ॥ प्रोल्लसन् हारो यस्य, प्रोल्लसन्त्यश्व धारा यस्य । तस्या: कामिन्या:, प्रावृषश्च । } अतन्द्रेति । चन्द्रः कर्पूरमपि । समुत्सहर्षा । तारकाभ्यां कनीनिकाभ्यामपि । श्यामा रात्रिः कान्ता च । मातङ्गी हस्ती चण्डालश्च । गौर्यो गौराङ्गथोऽपि । विभवे रताः, विगतं भवे रतं यासां ताश्च । पद्मरागा मणिविशेषाः पद्मवश्च रागो विद्यते यासाम् । द्विजा दन्ता विप्राश्च । 1. I. drops oft 2 I. L. ज्यव 3. L. धवलशुचिद्विज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy