________________
१०
१५
संज्ञा यथा
---
इङ्गितं यथा
: काव्यानुशासनम्
अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूकम्पमयमुत्तरं ददौ ॥ ५५ ॥ [ कु. सं. स. ८ श्लो. ६]
[ अ. १. सू. २३.
कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम् ।
भवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥ ५६ ॥
[
Jain Education International
]
आकारो यथा
निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम्॥५७॥ [ कु. सं. स. ९ श्लो. ४६ ] तदेवं संसर्गादिभिर्नियमितायामभिवायां यार्थान्तरे प्रतीतिः सा व्यञ्जनव्यापारादेव । अमुख्येऽपि शब्दे मुख्यार्थबाधादिनियमिते प्रयोजन प्रतिपत्तिर्व्यञ्जनव्यापारादेव । तथा हि तत्र संकेताभावानाभिधा । नापि गौणी लक्षणा वा मुख्यार्थबाधादिलक्षणाभावात् । न हि लक्ष्यं मुख्यं नापि तस्य बाधा, न च किञ्चिन्निमित्तमस्ति, ि तत्र शब्दः स्खलद्गतिः, न च किञ्चित्प्रयोजनमस्ति । अथ प्रयोजनेऽपि लक्ष्ये प्रयोजनान्तरमाकाङक्ष्यते, तर्हि तत्रापि प्रयोजनान्तराकाङक्षायामनवस्था स्यात् । तथा च लाभमिच्छतो मूलक्षतिः । न च प्रयोजनसहितमेव लक्ष्य लक्षणाया विषय इति वक्तुं शक्यम् । विषयप्रयोजनयोरत्यन्तभेदात् । प्रत्यक्षादेरपि प्रमाणस्य विषयो घटादिः । प्रयोजनं त्वर्थाधिगतिः प्राकटचं संवित्तिर्वा । तदेवं प्रयोजनविशिष्टस्य लक्ष्यस्य गौणीलक्षणयोरविषयत्वात्प्रयोजने व्यञ्जनमेव व्यापारः ।
अर्थाधिगतिरिति नैयायिकादीनां प्राकटथं भाट्टमते, संवितिः प्राभाकरे |
For Private & Personal Use Only
www.jainelibrary.org