SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. २२-२३ ] काव्यानुशासनम् व्यङ्गयस्य यथा 1 वाणियय हत्थिता कुत्तो अम्हाण वग्घकित्तीओ । जावि लुलियालयमुही घरंमि परिसुक्कए सुण्हा ॥ ३७ ॥ [स. श. ९५९ ] अत्र: विलुलितालकमुखी तेनानवरतक्रीडासक्तिस्तथा च सततसंभोगक्षामता ध्वन्यते । व्यङ्ग्यस्य भेदानाह व्यङ्ग्यः शब्दार्थशक्तिमूलः ॥ २२ ॥ शब्द शक्तिमूलोऽर्थशक्तिमूलश्वेति व्यङ्गयो द्विधा । उभयशक्तिमूलस्तु शब्दशक्तिमूलान्नातिरिच्यते शब्दस्यैव प्राधान्येन व्यञ्जकत्वात् । तत्र शब्दशक्तिमूलमाह --- नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्यार्थबाधादिभिर्नियमिते व्यापारे वस्त्वलङ्कारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्तिमूलः पदवाक्ययोः ॥ २३ ॥ अनेकार्थस्य मुख्यस्य शब्दस्याभिधालक्षणे व्यापारे संसर्गादिभिर्नि यन्त्रिते मुख्यस्य च गौणलाक्षणिक रूपस्य शब्दस्य मुख्यार्थबाधनिमित्तप्रयोजनैगौणीलक्षणारूपे व्यापारे नियन्त्रिते मुख्यस्य शब्दस्य वस्त्वलङ्कारव्यञ्जकत्वेऽमुख्यस्य च वस्तुव्यञ्जकत्वे सति शब्दशक्तिमूलो व्यङ्ग्यः । स च प्रत्येकं द्विधा । पदे वाक्ये च । संसर्गादयश्चेमे भर्तृहरिणा प्रोक्ताः (8) संसर्गों विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ 1. P बाणिय Jain Education International [ वा. प. का. २. श्लो. ३१७ ] For Private & Personal Use Only ६.३ १० १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy