________________
६२
१०
१५
२०
काव्यानुशासनम्
अ. १. सू. २१
अद्य मधुसमये यदि व्रजसि तदहं तावन्न भवामि । तव तु
न जानामि गतिमिति व्यज्यते ।
चेष्टाया यथा
द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
1
प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् । आनीतं पुरतः शिशुकमधः क्षिप्ते चले लोचने
वाचस्तच्च निवारितं प्रसरणं संकोचिते दोलते ॥ ३५ ॥ [
]
अत्र चेष्टायाः प्रच्छन्नकान्तविषय आकृतविशेषो ध्वन्यते । एवं वक्त्रादीनां द्विकादियोगेपि व्यञ्जकत्वमवसेयम् ।
तत्र वक्तृबोध्ययोगे यथा
अत्ता इत्थेत्यादि ।
अत्र वक्तृबोध्यपर्यालोचनया शेष्वेति विधिरूपव्ययार्थप्रतीतिः । एवं द्विकयोगान्तरे त्रिकादियोगे च स्वयमप्यूह्यं । एषु मुख्यार्थस्य व्यञ्जकत्वमुदाहृतम् ।
अमुख्यस्य यथा
2
साहती सहि सुहयं खणे खणे दूमिया सि मज्झ कए
3
सज्झावनेहकरणिज्जसरिसयं दाव विरइयं तु मए ॥ ३६॥
[ स. श. ८६० ]
अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम् । तेन
5
च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्गयम् ।
1. I समापादितं
20 L साहिती N. सार्हेति
3. L सज्झावणेह
4. I शत्रुत्वमाचरन्तमिति
5. L प्रकाशितव्यगं
Jain Education International
4
For Private & Personal Use Only
www.jainelibrary.org