SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [अ. १: सु. २०-२१ १ . १० मुख्याधास्तच्छक्तयः ॥ २० ॥ .... - 'मुख्यागौणीलक्षणाव्यञ्जकत्वरूपाः शक्तयो व्यापारा मुख्यादीनां शब्दानाम् । तत्र समयापेक्षा वाच्यावगमनशक्तिर्मुख्याऽभिधा चोच्यते । मुख्यार्थबाधादिसहकार्यपेक्षाऽर्थप्रतिभासनशक्तिर्गौणी लक्षणा च । तच्छक्त्युपजनितार्थावगमपवित्रितप्रतिपत्तप्रतिभासहायार्थयोतनशक्तिर्व्यञ्जकत्वम् । .. . अभिधानन्तरं च यद्यप्यन्वयप्रतिपत्तिनिमित्तं तात्पर्यशक्तिरप्यस्ति तद्विषयस्तात्पर्यलक्षणोऽर्थोऽपि, तथापि तौ वाक्यविषयावेवेति नात्रोक्तो। वक्त्रादिवैशिष्टयादर्थस्यापि व्यञ्जकत्वम् ॥ २१ ॥ वक्तृप्रतिपाद्यकाकुवाक्यवाच्यान्यासत्तिप्रस्तावदेशकालचेष्टादिविशेषवशादर्थस्यापि मुख्यामुख्यव्यङ्गयात्मनो व्यञ्जकत्वम् । वक्तृविशेषाद्यथा-- दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गहे दास्यसि प्रायो नास्य शिशोः पिताध विरसाः कौपीरपः पास्यति । प्रातिवैश्मिकलोकविषयं चाविनयप्रच्छादनेन प्रत्यायनं व्यङ्गयम् । तत्सपल्यां च तदुपालम्भतदविनयप्रहृष्टायां सौभाग्यातिशयख्यापनं प्रियाया इति शब्दबलादिति सपत्नीविषयं व्यङ्गयम् , सपत्नीमध्ये इयती खलीकृतास्मीति लाघवमात्मनि ग्रहीतुं न युक्तम् , प्रत्युताय बहुमानो यतो रोषे कुपिता पादपतनादि लभस इति, सहस्व शोभस्वेदानीमिति सखीविषयं सौभाग्यख्यापनं व्यङ्गयम् । अद्ययं तव प्रच्छन्नानुरागिणी हृदयवल्लभा इत्थं रक्षिता पुनः प्रकटदशनरदनविधिरत्र न युक्त इति तच्चौर्यकामुकविषयं संबोधनं व्यंगथम् । इत्यं मयैतदपहतमिति स्ववैदग्ध्यख्यापन तटस्थविदग्धलोकविषय व्यङ्गयमिति। ताविति। सा च स च तौ । अति । शक्तिमयेऽर्थमध्ये च । दृष्टि हे प्रतिवेशिनीति । काचियुवतिः परपुरुषसंभोगानुभवेच्छया १५ संकेतस्थानं व्रजन्ती स्वप्रवृत्तिप्रयोजनं विशिष्टसंकेतस्थानाधारं परपुरुषसंभोगात्मक तथा संभोगचिहानि नखरदनक्षतानि गात्रसंलमतया . शवयमानाविर्भावानि 1. I. समयापेक्षवाच्या - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy