________________
- काव्यानुशासनम्
अ. १. सू. १९
मवश्यमाश्रयितव्यम् । यथा च समयसव्यपेक्षाभिधा । तथा मुख्यार्थबाधादित्रयसमयविशेषसव्यपेक्षा लक्षणा । अत एव अभिधापुच्छभूता सा इत्याहुः । न च लक्षणात्मकमेव ध्वननं तदनुगमेन तस्य दर्शनात् । न च तदनुगतमेव, अभिधालम्बनेनापि तस्य भावात् । न चोभयानुसार्येव, अवाचकवर्णानुसारेणापि तस्य दृष्टेः । न च शब्दानुसार्यव, अशब्दात्मकनेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य सिद्धेः । इत्यभिधातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्ती व्यञ्जनव्यापारोऽपहवनीय एवेति सिद्धमेव निषेधस्य व्यङ्गयत्वम् । तत्र 'अत्ता एत्थ-' इत्यादौ नियतसंबद्धः ‘कस्स च ण होइ रोसो-' इत्यादावनियतसंबद्धः ।
विवरीयरए लच्छी बम्भं दट्टण णाहिकमलत्यम् । । हरिणो दाहिणणयणं रसाउला झत्ति ढक्केइ ॥ १३८ ॥ ...
[स. श. ८१५ . 1 इत्यादौ संबद्धसंबद्धः । अत्र हि हरिपदेन दक्षिणनयमस्य सूर्यात्सता व्यज्यते । तन्निमीलनेन सूर्यस्यास्तमयस्तेन पद्मस्य संकोचस्ततो ब्रह्मणः स्थगनं
तत्र सति गोप्याङ्गस्यादर्शनेऽनियन्त्रणं निधुवनविलसितम् । येऽप्याहुः१५ (23) : अखण्डबुद्भिनिर्गाचं वाक्यमेव च वाचकम् । वाक्यर्थ एव वार्थः'
इति, तैरप्यविद्यापदपतितः पदपदार्थकल्पना कर्तव्येवेति । तत्पक्षेऽयवश्यमेव निषेधस्य व्यङ्गयत्वम् ।
अन्ये तु-वाच्यादसंबद्धं तावन्न प्रतीयते यतः कुतश्चिद्यस्य कस्यचिदर्थस्थ प्रतीतेः प्रसङ्गात् । एवं च संबन्धाद्वयङ्गथव्यञ्जकभावोऽवश्यमप्रतिबन्धे न भवतीति त्रिरूपाद्धेतोरेव नियतधर्मिनिष्टत्वेन प्रतीतिः । तथा च भीरुभ्रमणस्य कारणं भयकारणभावस्तद्विरुद्धं च भयकारणं सिंहस्तदुपलब्धेलतागहनेऽत्रमणमनुमीयत इति विध्यादावपि वाच्ये सिंहसद्भावादि निषेधादेरनुमापकम् । न तु व्यञ्जकमिति ये वदन्ति तेऽपि न युक्तवादिनः । तथा हि । अप्रमाणभूतवाक्यप्रत्येयः सिंह इति संदिग्धासिद्धो हेतुः । स्वाम्यादेशेनानुरागेण लोभेनान्येन वा केनचिदेवविधेन हेतुना भीरोरपि भयकारणसद्भावेऽपि भवति भ्रमणमित्यनैकान्तिकः शुनः कृपापात्रत्वादप्रतीकार्यत्वेन बिभेति । सिंहे तेजस्विनि तु पराक्रमत इति विरुद्धश्च । तत्कथमनुमानम् । एवंविधादर्थादेवविधोऽर्थ उपपत्त्यनपेक्षत्वे न प्रकाशत इति । व्यक्तिवादिनस्तु तददूषणम्
1. A. B. °ने भ्रमणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org