________________
अ. १. सू. १९] काव्यानुशासनम् ____ अत्र विस्रब्धो भ्रमेति विधिवाक्ये तत्र निकुञ्ज सिंहस्तिष्ठति त्वं च शुनोऽपि विभेषि तस्मात्त्वया तस्मिन् न गन्तव्यमिति निषेधः प्रतीयते । रणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य, बोद्धृमात्र• विदग्धव्यपदेशयोः प्रतीतिमात्रचमत्कृत्योश्च करणात् कार्यस्य, · गतोऽस्तमर्कः' ५ इत्यादौ प्रदर्शितनयेन संख्यायाः, 'कस्स व-' इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च, भेदेऽपि यद्येकत्वं तत्वचिदपि नीलानीलादो भेदो न स्यात् । उक्तं हि-(22) 'अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति।' वाचकानामपेिक्षा, व्यजकानां तु न तदपेक्षत्वमपीति न वाचकत्वमेव व्यञ्जकत्वम् । किं च । 'वाणीरकुडेगु-' इत्यादौ प्रतीयमानमर्थमभिव्यज्य वाच्य १० स्वरूप एव यत्र विश्राम्यति तत्र मध्यमकाव्यप्रभेदेऽतात्पर्यभूतोऽप्यर्थः स्व. शब्दानमिधेयः प्रतीतिपथमवतरन् कस्य व्यापारस्य विषयतामवलम्बताम् ।
ननु — रामोऽस्मि सर्व सहे ' इति, 'रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् ' इति, 'रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्' इत्यादौ लक्षणीयोऽथों नानात्वं भजते, विशेषव्यपदेशहेतुश्च भवति । तदवगमश्च शब्दार्थायत्तः प्रकरणादिसव्यपेक्षश्चेति कोऽयं नूतनः प्रतीयमानो नाम । उच्चतेलक्षणीयस्यार्थस्य नानात्वेऽप्यनेकार्थशब्दाभिधेयवनियतत्वमेव न खलु मुख्येनार्थेनानियतसंबन्धो लक्षयितुं शक्यते, व्यङ्गयस्तु प्रकरणादिविशेषवशेन नियतसंबद्धोऽनियतसंबद्धः संबद्धसंबद्धश्च द्योतते । न च ‘भम धम्मिय' इत्यादी अर्थशक्तिमूले व्यङ्गथे मुख्यार्थबाधस्तत्कथमत्र लक्षणा, लक्षणायामपि व्यजन- १०
1. N. करणकार्यस्य 2. N. °योऽप्यों 3. N. बलेन 4. N. °संबन्ध for संबद्धः 5. A. B, व्याय
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org