________________
काव्यानुशासनम्
[अ. १. सू. १९
-
वाच्यवाचकभावव्यतिरेकेण व्यायव्यजकताश्रयेण तु व्ययस्य बहुविधत्वात्वचिदेव कस्यचिदेवौचित्येनोपपद्यत एव विभागव्यवस्था ।
'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः' । १३५ ।
[कु. सं. स. ५. श्वो. ७१] इत्यादौ पिनाक्यादिपदवलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम् । अपि च वाच्योऽर्थः सर्वान् प्रतिपत्तन् प्रत्येकरूप एवेति नियतोऽसौ । न हि ‘गतोऽस्तमर्कः' इत्यादौ वाच्योऽर्थः क्वचिदन्यथा भवति प्रतीयमानस्तु तत्तत्प्रकरणवक्तृप्रतिपत्रादिविशेषसहायतया नानात्वं भजते । तथा च गतोऽस्तमर्कः' इत्यतः सपलं प्रत्यवस्कन्ददानावसर इति, अभिसरणमुपक्रम्यतामिति, प्राप्तप्रायस्ते प्रेयानिति, कर्मकरणानिवर्तामह इति, सान्ध्यो विधिरुपम्यतामिति, दूरं मा गा इति, सुरभयो गृह प्रवेश्यन्तामिति, संतापोऽधुना न भवतीति, विक्रेयवस्तूनि संहियन्तामिति, नागतोऽद्य प्रेयानित्या
दिरनवधिय॑ङ्गयोऽर्थस्तत्र तत्र प्रतिभाति । वाच्चव्याययोः निःशेष' १५ इत्यादौ निषेधविध्यात्मना, मात्सर्यमुत्सार्य विचार्य कार्यम्' इत्यादौ संशये शान्तशृङ्गार्यन्यतरगतनिश्चयरूपेण,
कथमवनिप दपों यन्निशातासिधारादलनगलितमूर्धा विद्विषां स्वीकृता श्रीः। ननु तव निहतारेरप्यसौ किं न नीता
त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥ १३६ ॥ इत्यादौ निन्दास्तुतिवपुषा,
हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावमुख्यलब्धायशो
भारप्रोद्वहने करोषि कृपया साहायकं यन्मरो: ॥ १३७ ॥ इत्यादी स्तुतिनिन्दारूपेण, स्वरूपस्य । पूर्वपश्चाद्भावेन प्रतीतेः कालस्य, शब्दाश्रयत्वेन तदर्थवर्णसंघटनाश्रयत्वेन चाश्रयस्य, शब्दार्थशासनज्ञानेन प्रक
1 A. drops from नीयतां to सर्वान्
2. N. वाच्यार्थः ... 3. A. B. व्यङ्गयार्थः
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org