________________
अ. १. सू. १९]
काव्यानुशासनम्
ज्ञापकत्वं त्वज्ञातस्य कथम् । ज्ञातत्वं च संकेतेनैव, स चान्वितमात्रै । एवं च निमित्तस्य नियतनिमित्तत्वं यावन्न निश्चितं तावनैमित्तिकस्य प्रतीतिरेव कथमिति नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इत्यविचारिताभिधानम् ।
ये त्वभिदधति-'सोऽयमिषोरिव दीर्घदीघों व्यापारः' इति यत्परः शब्दः स शब्दार्थ इति च प्रतिषेध एवात्र वाच्य इति । एतदतात्पर्यज्ञत्वं तात्पर्यवाचोयुक्तेर्देवानांप्रियाणाम् । तथा हि । भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति कारकपदार्थाः क्रियापदार्थेनान्वीयमानाः प्रधानक्रियानिर्वर्तकस्वक्रियाभिसंबन्धात् साध्यायमानतां प्राप्नुवन्ति । ततश्चादग्धदहनन्यायेन यावदप्राप्तं तावद्विधीयते । यथा 'रक्तं पटं वय' इत्यादावेकविधिविविधिस्त्रिविधिर्वा । ततश्च यदेव विधेयं तत्रैव तात्पर्यमित्युपात्तस्यैव शब्दस्यार्थे तात्पर्यम् । न तु प्रतीतमात्रे । एवं हि. १० 'पूर्वी धावति' इत्यादावपराद्यर्थेऽपि क्वचित्तात्पर्य स्यात् । ..... ,
यत्तु--' विषं भक्षय मा चास्य गृहे भुङ्कथाः' इत्यत्र एतद्गृहे. न भोक्तव्यमित्यत्र तात्पर्यमिति स एव वाक्यार्थ इत्युच्यते । तत्र चकार एकवाक्यतासूचनार्थः । न चाख्यातवाक्ययोद्धयोरङ्गाङ्गिभाव इति. विषभक्षणवाक्यस्य कृद्वाच्यत्वेनाङ्गता कल्पनीयेति विषभक्षणादपि दुष्टमेतद्गृहे भोजनमिति सर्वथा मास्य गृहे भुकथा इत्युपात्तशब्दार्थ एव तात्पर्यम् । यदि च शब्दश्रुतेरनन्तरं यावानथोंऽवगम्यते ताबति शब्दस्याभिधैव व्यापारस्तत्कथं ' ब्राह्मण पुत्रस्ते जातो ब्राह्मण कन्या ते गर्भिणी'. इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम् । कस्माच लक्षणा । किमिति च श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वपूर्वबलीयस्त्वमित्यन्विताभिधानवादेऽपि निषेधस्य २० सिद्धं व्यङ्गयत्वम् । किं च कुरुरुचिमिति पदयो_परीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम् । न यत्रासभ्योऽर्थः पदार्थान्तरैरन्वित इत्यनमिधेय एवेत्येवमाद्यपरित्याज्यं स्यात् । यदि च वाच्यवाचकत्वन्यतिरेकेण व्यङ्ग्यव्याकभावो नाभ्युपैयते तदाऽसाधुत्वादीनां नित्यदोषत्वं कष्टत्वादीनामनित्यदोषत्वमिति विभागकरणमनुपपन्नं स्यात् । न चानुपपन्नं सर्वस्यैव विभक्ततया प्रतिभासात्। १५
1. A- B. drop ज्ञापकत्वं
2. A. B. ज्ञातज्ञापकत्वं ... 3. A. B. drop one दीर्घ. 4. N. भुडव
A. B. C. तदसाधुत्वादीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org