________________
'काव्यानुशासनम्
[अ. १. सू. १९
इति व्याख्याने लाक्षणिकोऽयमों भवेत्ततः प्रयोजनांशे व्यङ्गये निषेधो व्यङ्गय इति न संगच्छते । इह वासिनेति चाभिधेयं स्यात् । न चात्र निषेधस्य वाच्यत्वं वक्तुं शक्यम् । तथा हि । अगृहीतसंकेतस्यार्थप्रतिपत्तेरकरणाद् गृहीतसंकेत
एव शब्दोऽर्थप्रतिपादकः । संकेतश्चानन्त्याद्वयभिचाराच्च वाक्यार्थ इव वाक्यस्य ५ विशेषरूपे पदार्थ पदस्य कर्तु न पार्यत इति सामान्य एवासौ । आकाडायोग्यतासंनिधिवशात्पदार्थानां सामान्यभूतानां समन्वय इति ।
(18) 'सामान्यान्यन्यथाऽसिद्धेविशेष गमयन्ति हि' इति । विशेषरूपः(19) 'विशेष्यं नाभिधा गच्छेत्क्षीणशक्ति विशेषणे' इल्यपदार्थोऽपि वाक्यार्थ उल्लसति । विशेषस्यैव च यत्राशब्दार्थत्वं तत्र वस्त्वन्तररूपस्य निषेघस्य वाच्यत्वमिति का कथेत्यभिहितान्वयवादे तावनिर्विवादैव निषेधस्य व्यङ्गयता । येऽप्याहुः
(20) — अनन्विताथै पदमप्रयोज्यम् ' इति 'प्रयोगयोग्य वाक्यमेव, तत्र च संकेतो गृह्यत इत्यपरपदार्थान्वित एव
पदार्थः संकेतभूः । यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन १५ तान्येवैतानि पदानि निश्चीयन्ते-इति पदार्थान्तरमात्रेणान्वितः पदार्थः संकेत
गोचरः, तथापि सामान्यावच्छादितो विशेषरूप एवासौ प्रतिपद्यते, व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्यन्विताभिधाननये वाक्यार्थो नापदार्थः' इति तन्मतेऽपि सामान्यविशेषरूपः पदार्थः संकेतविषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोऽसंकेतितत्वादवाच्य एव । यत्र पदार्थः प्रतिपद्यते तत्र दूरेऽर्थान्तरभूतनिषेधचर्चा । अनन्वितोऽर्थोऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्त्वन्विताभिधानेऽन्वितविशेषस्त्ववाच्य एवेत्युभयनयेऽप्यपदार्थ एव वाक्यार्थः ।
यदप्युच्यते
(21) “ नेमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्ते"
इति ।
तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा । शब्दस्य प्रकाशकत्वान्न कारकत्व, 1. A. तथात्र 2. A. B. तथाभूततत्त्वादि०
3. N. न पदार्थ ... 4. 4, drops armasiat
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org