________________
अ. १. सू. १९] . काव्यानुशासनम् ध्वन्यते द्योल्यत इति ध्वनिरिति पूर्वाचार्यैः संज्ञितः। अयं च वस्त्वलकाररसादिभेदात्रेधा । तथा ह्याद्यस्तावत्प्रभेदो मुख्यादिभ्योऽत्यन्तं भिन्नः । स हि वाच्यविधिरूपे प्रतिषेधरूपो यथा--
भम धम्मिय वीसत्थो सो सुणओ अज मारिओ तेण .. गोलाणइकच्छकुडङ्गवासिणा दरियसीहेण ॥ १३ ॥
[ गा. स. २. ७२ (17) प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनासु ॥
[ध्व. उ. १. श्लो. ४ ] वस्त्वलङ्कारेति । इह लौकिकालौकिकभेदेनार्थो द्विधा । लौकिकश्च १० शब्दाभिधानयोग्योऽविचित्रविचित्रात्मतया द्विधा । तत्राविचित्रो वस्तुमात्रम्, विचित्रस्त्वलङ्कारात्मा । यद्यपि च व्यङ्ग्यतायां प्राधान्ये च विचित्रस्यालङ्कार्यत्वम् । तथापि ब्राह्मणश्रमणन्यायेन तस्यालङ्कारव्यपदेशः। अनयोश्च वस्त्वलङ्कारयोर्व्यङ्गयतायां यद्यपि न वाच्यत्वम् , तथापि तयोविध्यादिरूपत्वात् क्वचन तत्संभवतीति लौकिकत्वम् । अलौकिकस्तु स्वोऽपि वाच्यत्वस्पर्शाक्षमो रसादिरिति । १५
भम धम्मिए ति । काचिदविनयवधूगोदावरीकूललतागहने प्रच्छन्नकामुकेन सह नादेयपानीयानयनादिव्याजेन गृहानिर्गत्य सदा रममाणा धार्मिक पुष्पोच्चयनलताविलोपनादिना विघ्नभूतं संभावयन्ती विदग्धापि मुग्धेव वक्ति । यस्तवास्मद्रहपदं प्रविशतो भयमकरोत्स श्वा निविचारोऽद्यास्मद्भाग्योदयेन तेन लोकप्रसिद्धन हप्तेन कृपापात्रमपि श्वानमपश्यता सिंहेनाप्रतिकारयोग्येण मारित उन्मथितः । न तु बुद्धिपूर्वकं हतः । औचित्यैकवसतेरनौचित्यायोगात् । न चात्र सिंहस्ते भयकारणम् । यतो गोदावया नद्यां, न तु सरस्वत्यादिवत्तयुक्ते देशे, यत्कूलं तत्र । न तु ततो दूरे लतागहने दर्शनागोचरे स्थाने वसति. सततं कृतास्पदस्तेन निर्भयमिदानी भिक्षाद्यर्थ संचरेति । एवमादौ च विषये यद्यपि रसादिरों व्यङ्गयोऽस्ति तथापि महाराजशब्दव्यपदेश्यविवाह- २५ करणप्रवृत्तसचिवानुयायिराजवदप्रधानतामेव गृह्णाति । लतागहनस्थयैवेदमभिधीयत
1. A. drops भम धम्मिए ति, 2. N. drops पदं ३. A. B. न ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org