________________
४६
१०
१५
२०
' २५
काव्यानुशासनम्
[ अ. १. सू. १९
बाधः । सामीप्यं साहचर्यं च निमित्तम् । गंगातट इति कुन्तवन्त इति च प्रयोगाद्येषां न तथाप्रतिपत्तिस्तेषां पावनत्वरौद्रत्वादीनां धर्माणां तथाप्रतिपादनं प्रयोजनम् ।
गौरनुबन्ध्य इति तु नोदाहरणीयं । अत्र हि श्रुतिनोदितमनुबन्धनं जातौ न संभवतीति जात्यविनाभावित्वाद्यक्तिराक्षिप्यते, न तु शब्देनोच्यते ।
(7) "" विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे " इति न्यायात् । न चात्र प्रयोजनमस्ति । अविनाभावादाक्षेपे च यदि लक्ष्यत्वमिष्यते तदा क्रियतामित्यत्र कर्तुः । कुर्वित्यत्र कर्मणः । प्रविश पिण्डीमित्यादौ गृहं लक्षय - इत्यादेश्च लक्ष्यत्वं स्यात् । पीनो देवदत्तो दिवा न भुङ्क्त इत्यादौ न पीनत्वेन रात्रिभोजनं लक्ष्यतेऽपि त्वर्थापत्त्या आक्षिप्यत इति । इह च यत्र वस्त्वन्तरे वस्त्वन्तरमुपचर्यते स. गौणोऽर्थो यत्र तु न तथा स लक्ष्य इति विवेकः । कुशल-द्विरेफद्विकादयस्तु साक्षात्संकेतविषयत्वान्मुख्या एवेति न रूढिलक्ष्यस्यार्थस्य हेतुत्वेनास्माभिरुक्ता ।
व्यङ्गचं लक्षयति
मुख्याद्यतिरिक्तः प्रतीयमानो व्यङ्गयो ध्वनिः ॥ १९ ॥ मुख्यगौणलक्ष्यार्थव्यतिरिक्तः प्रतीतिविषयो व्यङ्गयोऽर्थः । स च
अस्माभिरिति । न तु भट्टमुकुलादिभिः । तेहि रूढिमपि प्रयोजनतया उपन्यस्य लक्षणा प्रवर्तिता ।
यदाहु:--
( 16 ) रूढे: प्रयोजनाद्वापि व्यवहारोऽवलोक्यते इति ॥ [
1
..मुख्य गौण लक्ष्यार्थव्यतिरिक्त इति । अयं भावः - यद्यतो व्यतिरेकेणावभासते तत्ततोऽन्यदिति व्यवहर्तव्यम् । नीलमिश्र पीतात् । वाच्या दिव्य तिरितश्च व्यङ्गयोsर्थोऽवभासत इति ।
व
प्रतीतिविषय इति । अनेन स्वसंवेदनसिछतामाह । तथा श्रीमदानन्दवर्धनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org