SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १८] काव्यानुशासनम् शब्दोऽपि गौण उपचरित इति चोच्यते । तत्र सादृश्ये निमित्ते भेदे-. नारोपितो यथा-गौर्वाहीकः । इदं वक्ष्यमाणस्य रूपकालङ्कारस्य बीजम् । अभेदेन यथा-गौ रेवायमिति । इदमतिशयोक्तिप्रथमभेदस्य । अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने निमित्तत्वमुपयान्तीति केचित् । स्वार्थसहचारिगुणाभेदेन ५ परार्थगता गुणा एव लक्ष्यन्ते, न तु परार्थोऽभिधीयत इत्यन्ये । साधारणगुणाश्रयेण परार्थ एव लक्ष्यत इत्यपरे । संबन्धे कार्यकारणभावे आयुधृतं, आयुरेवेदम् । अत्रान्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि प्रयोजनम् । ताद\-इन्द्रार्था स्थूणा इन्द्रः । स्वस्वामिभावे राजकीयः पुरुषो. राजा। ग्रामस्वामी १० ग्रामः । अवयवावयविभावे अग्रहस्त इत्यत्राप्रमात्रेऽवयवे हस्तः । मानमेयभावे आढको व्रीहिः । संयोगे रक्तद्रव्यसंयोगाद्रक्तः पटः । तात्कर्म्य अतक्षा तक्षा । वैपरीत्ये अभद्रमुखे भद्रमुखः । लक्ष्यमर्थ लक्षयति मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः ॥१८॥ १५ मुख्योऽर्थो गङ्गादिशब्दानां स्रोतःप्रभृतिस्तेन संबद्धस्तटादिरर्थस्तत्वेनाभेदेन लक्ष्यमाणो लक्ष्यः। तत्त्वेन लक्ष्यमाण इति । वचनाद्देदाभेदाभ्यामारोपित इति न वर्तते । शेषं तु गौणलक्षणमनुवर्तत एव । तद्विषयः शब्दो लक्षको यथा-गङ्गायां घोषः, कुन्ताः प्रविशन्ति । अत्र गङ्गायां घोषाधिकरणत्वस्य कुन्तानां प्रवेशस्य चासंभवान्मुख्यार्थ- २० 1. In. I. दा is placed over i. e. परीर्थ which shows a different reading 2. 1. L. गङ्गाया 3. L. अधिकरणात्तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy