________________
काव्यानुशासनम् [अ. १. सू. १७ गौणं लक्षयति--
मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः ॥१७॥ ... गौर्वाहीको. गौरेवायमित्यादौ मुख्यस्यार्थस्य सास्नादिमत्त्वादेः प्रत्यक्षादिना प्रमाणेन बाधे निमित्ते च सादृश्यसंबन्धादौ प्रयोजने च सादृश्यताद्रूप्यप्रत्तिप्रतिरूपे सत्यारोप्यारोपविषययोर्भेदाभेदेन च समारोपितोऽतथाभूतोऽपि तथात्वेनाध्यवसितो गुणेभ्य आयातत्वाद्गौणः,तद्विषयः मन्यत्वेनावस्थिताः क्रियाविशेषास्तत्समवेतं सामान्यमेव वाच्यम् । यदृच्छाशब्दानां तु . डित्यादीनां शुकसारिकामनुष्याधुदीरितेषु भिन्नेषु डित्थादिशब्देषु समवेतं डित्थशब्दत्वादिकं सामान्यमेव यथायोग्यं संज्ञिष्वध्यस्तमभिधेयम् । यदि वोपचयापचययोगितया डित्यादौ संज्ञिनि प्रतिकले भिद्यमानेऽप्यभिद्यमानो यन्महिम्ना डित्थो डित्थ इत्येवमादिरूपत्वेनाभिन्नाकारः प्रत्ययो बाधशून्यः संजायते तत्तथाभूतं डित्यादिशब्दावसेयवस्तुसमवेतमेव. डित्थत्वादिसामान्यमत्रेष्टव्यम् । तञ्च डित्यादिशब्दरभिधीयते । इति गुणक्रियायदृच्छाशब्दानामपि जातिशब्दत्वाजातिरेवैकः शब्दार्थ इति ।
तद्वानिति । जातेरर्थक्रियायामनुपयोगाद्विफल: संकेतः । यदाह--
(15) ' न हि जातिर्दहिपाकादापवुयुज्यत इति व्यक्तेश्वार्थकियाकारित्वेऽप्यानन्त्यव्यभिचाराभ्यां न संकेतः कर्तुं शक्यत इति जात्युपहिता व्यक्तिः शब्दार्थः' इति ।
अपोह इति । जातिव्यक्तितद्योगजातिमझुध्दयाकाराणां शब्दार्थत्वस्यानुपपद्यमानत्वाद्वादिशब्दानामगोव्यावृत्त्यादिरूपस्तद्विशिष्टं वा बुद्धिप्रतिबिम्बक सर्वथा बाह्यार्थस्पर्शशून्यमन्यापोहशब्दवाच्य शब्दार्थ इत्यर्थः । ।
मुख्या इति । इदमेव हि शब्दानां मुख्यत्वं यत्साक्षात्संकेतविषयत्वम् । संकेते च रूढिरेव कारणम् । ततो यदि रूढिमपेक्ष्य लक्षणा प्रवर्तत तदातिप्रसङ्गः स्यादिति । 1. I. भेदेनाभेदेन 2. A. B. यथायोग 3. A B. मत्रैष्टव्यम 4. A. B. शक्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org