________________
४
अ. १. सू. १६] काव्यानुशासनम् ___ जात्यादिस्वरूपं च प्रकृतानुपयोगान्नेह विपञ्चयते । जातिरेव सङ्केतविषय इत्येके । तद्वानित्यपरे । अपोहं इत्यन्ये ।
चतुष्टयीति । जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दाश्च । तथा हि-सर्वेषां शब्दानां स्वार्थाभिधानाय प्रवर्तमानानामुपाध्युपदर्शितविषयविवेकत्वादुपाधिनिबन्धना प्रवृत्तिः। उपाधिश्च द्विविधः । वक्तृसंनिवेशितो वस्तुधर्मश्च । तत्र यो वक्ता यहच्छया तत्तत्संज्ञिविषयशक्तयभिव्यक्तिद्वारेण तस्मिस्तस्मिन् संज्ञिनि निवेश्यते स वक्तृसंनिवेशितः । यथा डित्थादीनां शब्दानामन्त्यबुद्धिनिर्माह्य संहृतक्रमस्वरूपम् । तत्खलु तां तामभिधाक्तिमभिव्यञ्जयता वक्रा यदृच्छया तस्मिंस्तस्मिन् संज्ञिन्युपाधितया संनिवेश्यते। अतस्तन्निबन्धना यदृच्छाशब्दाः डित्यादयः । येषामपि च डकारादिवर्णव्यतिरिक्तसंहृतक्रमस्वरूपाभावान्न : १० डित्यादिशब्दस्वरूप संहृतक्रमं संज्ञिवध्यस्यत इति दर्शनम्, तेषामपि वक्तयदृच्छामिव्यज्यमानशक्तिभेदानुसारेण काल्पनिकसमुदायरूपस्य डित्थादेः शब्दस्य , तत्तत् संज्ञाभिधानाय प्रवर्तमानत्वाद् यदृच्छाशब्दत्वं डित्थादीनामुपपद्यत एव।।
वस्तुधर्मस्य च द्वैविध्यम् । सिद्धसाध्यताभेदात् । तत्र साध्योपाधिनिबन्धनाः क्रियाशब्दाः । यथा-पचतीति । सिद्धस्य तूपाधेद्वैविध्यम् । जातिगुणभेदात् । १५ तत्र पदार्थप्राणप्रद उपाधिर्जातिः । न हि कश्चित्पदार्थों जातिसंबधमन्तरेण स्वरूपं प्रतिलभते । यदुक्तं वाक्यपदीये(14) गौः स्वरूपेण न गौ यगोगोत्वामिसंबन्धात्तु गौः।
. [ घा. प... ] .. इति ।
लब्धस्वरूपस्य च वस्तुनो विशेषाधानहेतुर्गुणः । न हि शुकादेर्गुणस्य पटादिवस्तुस्वरूपप्रतिलम्भनिबन्धनत्वम् । जातिमहिम्नैव तस्य वस्तुनः प्रतिलब्धस्वरूपत्वात् ।
जातिरेवेति । तथा हि-गुणशब्दानां तावच्छुक्लादीनां पयःशजबलाकाद्याश्रयसमवेता ये शुक्लादिलक्षणा गुणा विभिन्नास्तत्समवेतसामन्यवाचिता । एवं क्रियादिशब्दानामपि गुडतिलतन्दुलादि द्रव्याश्रिता ये पाकादयोऽन्योन्य
1.c. शक्तिव्यक्ति .2. N. प्रवतेनत्वात् ..
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org