________________
१०
काव्यानुशासनम् [अ. १. सू. १५-१६ अत्र रावणस्य दृग्विशतौ वैचित्र्येण स्वभावोक्तिर्निहितापि रसस्याङ्गत्वेन न योजितेति ॥ शब्दार्थयोः स्वरूपमाह
मुख्यगौणलक्ष्यव्यङ्गयार्थभेदात् मुख्यगौणलक्षकव्यञ्जकाः शब्दाः ॥ १५॥
मुख्यार्थविषयो मुख्यो गौणार्थविषयो गौणो लक्ष्यार्थविषयो लक्षको व्यङ्गचार्थविषयो व्यञ्जकः शब्दः । विषय भेदाच्छब्दस्य भेदो न स्वाभाविक इत्यर्थः । मुख्यमर्थ लक्षयति
साक्षात्संकेतविषयो मुख्यः ॥ १६ ॥
अव्यवधानेन यत्र संकेतः क्रियते स मुखमिव हस्ताघवयवेभ्योऽर्थान्तरेभ्यः प्रथमं प्रतीयत इति मुख्यः । स च जातिगुणक्रियाद्रव्यरूपस्तद्विषयः शब्दो मुख्यो वाचक इति चोच्यते । यथा-गौः शुक्लश्चलति देवदत्त इति । यदाह महाभाष्यकारः (6) " चतुष्टयी शब्दानां प्रवृत्तिः " इति । ..... [अ. १. पा. ९. आ. २ ऋलुक् सूत्र ]
न योजितेति । रसवशादेकैकमन्यक्रियमिति ह्येतावन्मात्रेऽप्युक्त तद्रसगतव्यमिचारिभेदोपनिपाताय योगपद्याशुभावित्वसंभावनाय च किञ्चिद्विभाववैचित्र्यं वक्तव्यं यथा
सभायां तादृश्यां नरपतिशतैरक्षकितवैः समभ्याकीर्णायामृतुपरिचितामेकवसनाम् । यदकाक्षीदःशासननरपशुः केशनिचयान् न कस्यासीत्तेन भ्रुकुटिविषमो बाष्पविसरः ॥ १३४ ॥
अत्र हि भ्रुकुटिः क्रोधस्यानुभावो बाष्पश्च शोकस्य शोककोधयोश्च योगपद्यमाशुभावो वा विभावबलादर्शितः सा हि तादृशी शोकस्य विभावो, दुःशासनश्च तथानुचितकारी क्रोधस्य, तच्च विभावद्वयं झटिति पुर:पतितमनुभाववैचित्र्यमाधत्ते -इति युक्तं विरुद्धरूपदीप्ततमभसृणतमचित्तवृत्त्युचितानुभावयोजनम् । 'न्यञ्चत्कुञ्चितम्'--इत्यादौ तु तत्प्रकृतानुगुण्यप्रतिजागरणं कविना सावलेपतया न कृतमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org