SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १४] काव्यानुशासनम् न त्वेवं यथा स्वञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन । उद्घाट्य मे प्रविष्टा देहगृहं सा हृदयंचौरो ॥ १० ॥ [भासस्य ] अत्र नयनद्वारमित्येतावदेव सुन्दरं शृङ्गारानुगुणं न त्वन्यद्रूपणम्। ५ . निर्वाहेऽप्यङ्गत्वं यथाश्यामास्वङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातान् गण्डस्थायां शशिनि शिखिनां बर्हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्थं कचिदपि न ते भीरु सादृश्यमस्ति ॥ ११ ॥ १० [ मे. दू. उ. श्लो० ४१] अत्र ह्युत्प्रेक्षायास्तद्वद्भावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोपक्रान्त तथा निर्वाहितमपि विप्रलम्भरसोपकाराय । नत्वेव यथान्यञ्चत्कुश्चितमुत्सुकं हसितवत्साकूतमाकेकर ___ १५ व्यावृत्तं प्रसरप्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । उद्घ भ्रान्तमपाङ्गवृत्ति विकचं मजत्तरङ्गोत्तरं चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ॥ १२ ॥ श्यामास्विति । सुगन्धिप्रियङ्गुलतासु पाण्डिन्ना कण्टकितत्वेन च २० योगात् । शशिनीति । पाण्डुरत्वात् । उत्पश्यामीति । यत्नेनोत्प्रेक्षे । जीवितसंधारणायेत्यर्थः । हन्तेति। कष्टमेकस्थसादृश्याभावे हि दोलायमानोऽहं सर्वत्र .. स्थितो न कुत्रचिदेकत्र धृति लभे-इति भावः । भीरु इति । यो हि कातरहृदयो भवति नासौ सर्वमेकस्थं धारयतीत्यर्थः । ... 1. I. कपाढं P. कवा 2. A. B. पाण्डरत्वात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy